Shri Pramukhasvamimaharajamahima Ashtakam
Ashtakam
1
(शार्दूलविक्रीडितम्) शोभन्ते शुभसाधुशीलसरला निर्वेदपूर्णाः क्षितौ शास्त्रिश्रीगुरुयोगिनोश्च परमा प्राप्ता भवद्भिः कृपा। धृत्वा धर्मधुरां समुद्रमनसो गम्भीरनम्रा विदा नारायणस्वरूपदासगुणिनः स्नेहेन वन्दे ह्यहो॥
2
गण्यन्ते जलराशिबिन्दुनिचया आकाशतारागणा भूमेर्धूलिकणा भवद्गुणगणाः किं केशविष्ण्वादिभिः। व्यासो वेदपुराणनिर्मितपरोऽशक्तोऽभवत् त्वत्स्तुतौ वन्दे त्वां प्रमुखं गुणालयगुरुं मोक्षाय भक्त्या सदा॥
3
स्पर्शः स्पर्शमणेः करोति कनकं लोहं सुजीर्णं बली देह तुच्छतमं विचार्य चरतो योगोऽमलस्तेऽनिशम्। संयुक्ते विमुखान् महाव्यसनिनो भक्तौ हरेर्नास्तिकान् वन्दे त्वां प्रमुखं गुणालयगुरुं मोक्षाय भक्त्या सदा॥
4
धर्मज्ञानविरागभक्तय इमे ख्याता गुणास्तावका एकैकं विनिपातितुं कृतपणाः स्पर्धाविलग्ना नु किम्। मार्तण्डस्य मरीचिभिश्च सद्रशा भान्ति प्रहन्तुं तमो वन्दे त्वां प्रमुखं गुणालयगुरुं मोक्षाय भक्त्या सदा॥
5
वाणी तेऽमृतवर्षिणी जनहिता पापौघविध्वंसिनी रम्यं शान्तिकरं नितान्तसुखदं त्वदद्दर्शनं पावकम्। नैपुण्यं सकलोपमानरहितं साध्वी क्रिया ज्ञानदा वन्दे त्वां प्रमुखं गुणालयगुरुं मोक्षाय भक्त्या सदा॥
6
पाण्डित्ये सति साधुता न महिता तस्यां न चेत् प्राज्ञता वैरी तद्गुणराजिराशिरमितः साकं त्वयि द्योतते वन्दे त्वां प्रमुखं गुणालयगुरुं मोक्षाय भक्त्या सदा॥
7
स्वामिंस्ते प्रसृतप्रभावनिवहः सूर्यप्रभावं तथा शैत्यं शीतकरस्य तच्छिखरिणः स्थैर्यं क्षमत्वं क्षितेः। निर्लेपत्वगभीरते सुरपथाम्भोध्योर्विधत्तेप्यधो वन्दे त्वां प्रमुखं गुणालयगुरुं मोक्षाय भक्त्या सदा॥
8
मेघं वाञ्छति चातकोऽमृतकरं पक्षी चकोरो यथा पातिव्रत्यपरायणा निजपतिं वह्निं पतङ्गस्तथा। श्रीजीमूर्तिसदानिषक्त-हृदयश्चान्यान् करोति प्रभून् वन्दे त्वां प्रमुखं गुणालयगुरुं मोक्षाय भक्त्या सदा॥
9
त्वमेवासि नारायणस्य स्वरूपं, त्वमेवासि मूलाक्षरस्त्वं प्रयागः। त्वमेवासि शास्त्री च योगी त्वमेव, त्वमेवं चिरायुश्चिरङ्कृत् त्वमेव॥
10
(तोटकवृत्तम्) सरलं सुहृदं पवितं मनसा, ललितं मधुरं सुनृतं वचसा। निपुणं सुदृढं सुसहं क्रियया, प्रणमामि गुरुं प्रमुखं गुणिनम्॥
11
इति श्रीप्रमुखस्वामिमहाराजमहिमाष्टकं सम्पूर्णम् ।॥