Shri Nandishvarashtakam

Ashtakam

1

साक्षान्महत्तममहाघनचिद्विलास पुञ्जः स्वयं शिखरिशेखरतामुपेतः। यत्रेश्वरः स खलु नन्दति येन वेति नन्दीश्वरः स मदमन्दमुदं दधातु॥

2

ब्रह्माण्डवप्रगतलोकनिकायशस्य सन्तर्पि कृष्णचरितामृतनिर्झराढ्यः। पर्जन्यसन्ततिसुखास्पदपूर्वको यो नन्दीश्वरः स मदमन्दमुदं दधातु॥

3

यत्सौभगं भगवता धरणीभृतापि न प्राप्यते सुरगिरिः स हि को वराकः। नन्दः स्वयं वसति यत्र सपुत्रदारो नन्दीश्वरः स मदमन्दमुदं दधातु॥

4

यत्र व्रजाधिपपुराप्रतिमप्रकाश प्रासादमूर्धकलशोपरिनृत्यरङ्गी। बर्हीक्ष्यते भुवि जयध्वजकेतुभूतो नन्दीश्वरः स मदमन्दमुदं दधातु॥

5

यच्छृङ्गसङ्गतसुगन्धशिलाधिरूढः कृष्णः सतृष्णनयनः परितो व्रजाब्जम्। आलोक्यते द्विषडुदारदालाटवीस्ता नन्दीश्वरः स मदमन्दमुदं दधातु॥

6

जिग्ये यदीयतटराजिसरोजराजि सौरभ्यमञ्जुलसरोजलशीकरेण। त्रैलोक्यवर्तिवरतीर्थयशो रसौघै- र्नन्दीश्वरः स मदमन्दमुदं दधातु॥

7

यत्तीरसङ्गिपवनैरभिमृश्यमानाः स्युः पावना अपि जनाः स्वदशां परेषाम्। सा पावनाख्यसरसी यदुपत्यकायां नन्दीश्वरः स मदमन्दमुदं दधातु॥

8

कृष्णाख्यमस्ति महदुज्ज्वलनीलरत्नं सूते तदेव वसु तत्स्वभुवैव दृष्टम्। तल्लभ्यते सुकृतिनैव यदीयसानौ नन्दीश्वरः स मदमन्दमुदं दधातु॥

9

दुर्वासनाशतवृतोऽपि भवत्प्रयत्नः पद्याष्टकं पठति यः शिखरीश तुभ्यम्। कृष्णाङ्घ्रिपद्यरस एव सदा सतृष्णं एतं जनं कुरु गुरुप्रणयं दधानम्॥

10

इति महामहोपाध्यायश्रीविश्वनाथचक्रवर्तिविरचितं श्रीनन्दीश्वराष्टकं समाप्तम् ।॥