ShrI Venkateshashtakam 2

Ashtakam

1

ॐतत्सदिति निर्देश्यं जगज्जन्मादिकारणम्। अनन्तकल्याणगुणं वन्दे श्रीवेङ्कटेश्वरम्॥

2

नतामरशिरोरत्न श्रीयुतम् श्रीपदाम्बुजम्। प्रावृषेण्यघनश्यामं वन्दे श्रीवेङ्कटेश्वरम्॥

3

मोहादिषडरिव्यूहग्रहाकुलमहार्णवे। मज्जतां तरणीं नॄणां वन्दे श्रीवेङ्कटेश्वरम्॥

4

नाथं त्रिजगतां एकं साधुरक्षणदीक्षितम्। श्रीशेषशैलमध्यस्थं वन्दे श्रीवेङ्कटेश्वरम्॥

5

राजद्राजीवपत्रश्रीमदमोचनलोचनम्। मन्दहासलसद् वक्त्रं वन्दे श्रीवेङ्कटेश्वरम्॥

6

यन्मुखेन्दुस्मितज्योत्स्ना भूयसीं तमसां ततिम्। विधुनोति प्रपन्नानां वन्दे श्रीवेङ्कटेश्वरम्॥

7

नान्तस्य कस्यचिद् वाक्यं शब्दस्यानन्य वाचिनः। ब्रह्मारुद्रेन्द्रजनकं वन्दे श्रीवेङ्कटेश्वरम्॥

8

यद्वक्षःस्थलमध्यास्य भाति श्रीरनपायिनी। तडिल्लेखेवाभ्रमध्ये वन्दे श्रीवेङ्कटेश्वरम्॥

9

वेङ्कटेशाष्टकमिदं नरकण्ठीरवोदितम्। यः पठेत् सततं भक्त्या तस्मै विष्णुः प्रसीदति॥

10

इति श्री वट्टेपल्ले नरकण्ठीरव शास्त्रि विरचितम् श्री वेङ्कटेशाष्टकं समाप्तम्॥