Shri Shivamahima aShTakam

Ashtakam

1

सुरवृन्दमुनीश्वरवन्द्यपदो हिमशैलविहारकरो रुचिरः। अनुरागनिधिर्मणिसर्पधरो जयतीह शिवः शिवरूपधरः॥

2

भवतापविदग्धविपत्तिहरो भवमुक्तिकरो भवनामधरः। धृतचन्द्रशिरो विषपानकरो जयतीह शिवः शिवरूपधरः॥

3

निजपार्षदवृन्दजयोच्चरितः करशूलधरोऽभयदानपरः। जटया परिभूषितदिव्यतमो जयतीह शिवः शिवरूपधरः॥

4

वृषभाङ्गविराजित उल्लसितः कृपया नितरामुपदेशकरः। त्वरितं फलदो गणयूथयुतो जयतीह शिवः शिवरूपधरः॥

5

अहिहारसुशोभित आप्तनुतो समुपास्यमहेश्वर आर्तिहरः। धृतविष्णुपदीसुजटो मुदितो जयतीह शिवः शिवरूपधरः॥

6

व्रजकृष्णपदाब्जपरागरतो व्रजकुञ्जसखीनवरूपधरः। व्रजगोपसुरेश उमाधिपतिर्जयतीह शिवः शिवरूपधरः॥

7

युगकेलिविलासमहारसिको रसतन्त्रपुराणकथाचतुरः। रसशास्त्ररसज्ञपटुर्मधुरो जयतीह शिवः शिवरूपधरः॥

8

यमपाशभयापहरोऽघहरः प्रबलोऽस्ति महाप्रबलः प्रखरः। परिपूर्णतमो हरिभक्तिभरो जयतीह शिवः शिवरूपधरः॥

9

शिवशान्त्यर्थदं दिव्यं श्रीशिवमहिमाष्टकम्। राधासर्वेश्वराख्येन शरणान्तेन निर्मितम्॥