Shri Bhringidevacharya Ashtakam

Ashtakam

1

सीतारामपदासक्तं ज्ञानभक्तिमहोदधिम्। वन्दे भृङ्गिदेवार्यं द्वाराचार्यं जगद्गुरुम्॥

2

श्रीमद्वैष्णवधर्मस्य रक्षकं चाथ शिक्षकम्। वन्दे भृङ्गिदेवार्यं द्वाराचार्यं जगद्गुरुम्॥

3

आनान्दाभाष्यसिद्धान्तवेदिनं जितवादिनम्। वन्दे भृङ्गिदेवार्यं द्वाराचार्यं जगद्गुरुम्॥

4

रामब्रह्मोपदेष्टार नवधाभक्तिबोधकम्। वन्दे भृङ्गिदेवार्यं द्वाराचार्यं जगद्गुरुम्॥

5

जनानां मोक्षदातारं रामतारकदीक्षया। वन्दे भृङ्गिदेवार्य द्वाराचार्यं जगद्गुरुम्॥

6

सिद्धैः प्राज्ञैश्च भूपालैः सेवितमृद्धिसिद्धिदम्। वन्दे भृङ्गिदेवार्यं द्वाराचार्यं जगद्गुरुम्॥

7

सम्प्रदायरहस्यानां बाधकं धर्मवित्तमम्। वन्दे भृङ्गिदेवार्य द्वाराचार्यं जगद्गुरुम्॥

8

ऊर्ध्वपुण्ड्रादिसंस्कारकत्र्त्तारं शिष्यशासकम्। वन्दे भृङ्गिदेवार्य द्वाराचार्यं जगद्गुरुम्॥