Shri devarAjAShTakam
Ashtakam
1
देवराजाष्टकम् (काञ्च्यां वरदराज क्षेत्रे) नमस्ते हस्तिशैलेश श्रीमन्नम्बुजलोचन। शरणं त्वां प्रपन्नोऽस्मि प्रणतार्तिहराच्युत॥
2
समस्तप्राणिसन्त्राण प्रवीण करुणोल्बणाः। विलसन्तु कटाक्षास्ते मय्यस्मिन् जगतां पते॥
3
निन्दिताचारकरणं निवृत्तं कृत्यकर्मणः। पापीयांसममर्यादं पाहि मां वरद प्रभो॥
4
संसारमरुकान्तारे दुर्व्याधिव्याघ्रभीषिणे। विषयक्षुद्रगुल्माढ्ये तृषापादपशालिनि॥
5
पुत्रदारगृहक्षेत्रमृगतृष्णाम्बुपुष्कले। कृत्याकृत्यविवेकान्धं परिभ्रान्तमितस्ततः॥
6
अजस्रं जाततृष्णार्तमवसन्नाङ्गमक्षमम्। क्षीणशक्तिबलारोग्यं केवलं क्लेशसंश्रयम्॥
7
सन्तप्तं विविधैर्दुःखैर्दुर्वचैरेवमादिभिः। देवराज दयासिन्धो देवदेव जगत्पते॥
8
त्वदीक्षणसुधासिन्धुवीचिविक्षेपशीकरैः। कारुण्यमारुतानीतैश्शीतलैरभिषिञ्च माम्॥