Parvati Vallabha Nilakantha Ashtakam
Ashtakam
1
नमो भूतनाथं नमो देवदेवं नमः कालकालं नमो दिव्यतेजः। (दिव्यतेजम्) नमः कामभस्मं नमश्शान्तशीलं भजे पार्वतीवल्लभं नीलकण्ठम्॥
2
सदा तीर्थसिद्धं सदा भक्तरक्षं सदा शैवपूज्यं सदा शुभ्रभस्मम्। सदा ध्यानयुक्तं सदा ज्ञानतल्पं भजे पार्वतीवल्लभं नीलकण्ठम्॥
3
श्मशाने शयानं महास्थानवासं (श्मशानं भयानं) शरीरं गजानं सदा चर्मवेष्टम्। पिशाचादिनाथं पशूनां प्रतिष्ठं (पिशाचं निशोचं पशूनां) भजे पार्वतीवल्लभं नीलकण्ठम्॥
4
फणीनागकण्ठे भुजङ्गाद्यनेकं (फणीनागकण्ठं, भुजङ्गाङ्गभूषं) गले रुण्डमालं महावीर शूरम्। कटिव्याघ्रचर्मं चिताभस्मलेपं भजे पार्वतीवल्लभं नीलकण्ठम्॥
5
शिरश्शुद्धगङ्गा शिवावामभागं बृहद्दीर्घकेशं सदा मां त्रिनेत्रम्। (वियद्दीर्घकेशं, बृहद्दिव्यकेशं सहोमं) फणीनागकर्णं सदा भालचन्द्रं (बालचन्द्रं) भजे पार्वतीवल्लभं नीलकण्ठम्॥
6
करे शूलधारं महाकष्टनाशं सुरेशं परेशं महेशं जनेशम्। (वरेशं महेशं) धनेशस्तुतेशं ध्वजेशं गिरीशं (धने चारु ईशं, धनेशस्य मित्रं) भजे पार्वतीवल्लभं नीलकण्ठम्॥
7
उदानं सुदासं सुकैलासवासं (उदासं) धरा निर्धरं संस्थितं ह्यादिदेवम्। (धरानिर्झरे) अजं हेमकल्पद्रुमं कल्पसेव्यं भजे पार्वतीवल्लभं नीलकण्ठम्॥
8
मुनीनां वरेण्यं गुणं रूपवर्णं द्विजानं पठन्तं शिवं वेदशास्त्रम्। (द्विजा सम्पठन्तं, द्विजैः स्तूयमानं, वेदशात्रैः) अहो दीनवत्सं कृपालुं शिवं तं (शिवं हि) भजे पार्वतीवल्लभं नीलकण्ठम्॥
9
सदा भावनाथं सदा सेव्यमानं सदा भक्तिदेवं सदा पूज्यमानम्। मया तीर्थवासं सदा सेव्यमेकं (महातीर्थवासम्) भजे पार्वतीवल्लभं नीलकण्ठम्॥
10
इति पार्वतीवल्लभनीलकण्ठाष्टकं सम्पूर्णम् ।॥