Shachisunvashtakam

Ashtakam

1

हरिर्दृष्ट्वा गोष्ठे मुकुरगतमात्मानमतुलं स्वमाधुर्यं राधप्रियतरसखीवाप्तुमभितः। अहो गौडे जातः प्रभुरपरगौरैकतनुभाक् शचीसूनुः किं मे नयनशरणीं यास्यति पदम्॥

2

पुरीदेवयान्तःप्रणयमधुना स्नानमधुरो मुहुर्गोविन्दोद्यद्विशदपरिचर्यार्चितपदः। स्वरूपस्य प्राणार्बुदपरिचर्यार्चितपदः शचीसूनुः किं मे नयनसरणीं यास्यति पदम्॥

3

दधानः कौपीनं तदुपरि बहिर्वस्त्रमरुणं प्रकाण्डो हेमाद्रिद्युतिभिरभितः सेविततनुः। मुदा गायन्नुच्चैर्निजमधुरनामावलिमसौ शचीसूनुः किं मे नयनसरणीं यास्यति पदम्॥

4

अनावेद्यां पूर्वैरपि मुनिगणैर्भक्तिनिपुणैः श्रुतेर्गूढां प्रेमोज्ज्वलरसफलां भक्तिलतिकाम्। कृपालुस्तां गौडे प्रभु अतिकृपाभिः प्रकटय- न्शचीसूनुः किं मे नयनसरणीं यास्यति पदम्॥

5

निजत्वे गौडीयान्जगति परिगृह्य प्रभुरिमा- न्हरे कृष्णेत्येवं गणनविधिना कीर्तयत भोः। इति प्रायां शिक्षां चरणमधुपेभ्यः परिदिश- न्शचीसूनुः किं मे नयनसरणीं यास्यति पदम्॥

6

पुरः पश्यन्नीलाचलपतिमुरुप्रेमनिवहैः क्षरन्नेत्राम्भोभिः स्नपितनिजदीर्घोज्ज्वलतनुः। सदा तिष्ठन्देशे प्रणयिगरुडस्तम्भचरमे शचीसूनुः किं मे नयनसरणीं यास्यति पदम्॥

7

मुदा दन्तरि दृष्ट्वा द्युतिविजितबन्धूकमधरं करं कृत्वा वामं कटिनिहितमन्यं परिलसन्। समुत्थाप्य प्रेम्णागणितपुलको नृत्यकुतुकी शचीसूनुः किं मे नयनसरणीं यास्यति पदम्॥

8

सरोत्तीरारामे विरहविधुरो गोकुलविधो- र्नदीमन्यां कुर्वन्नयनजलधाराविततिभिः। मुहुर्मूर्च्छां गच्छन्मृतकमिव विश्वं विरचय- न्शचीसूनुः किं मे नयनसरणीं यास्यति पदम्॥

9

शचीसूनोरस्याष्टकमिदमभीष्टं विरचय- न्सदा दैन्योद्रेकादतिविशदबुद्धिः पठति यः। प्रकामं चैतन्यः प्रभुरतिकृपावेशविवशः पृथुप्रेमाम्भोधौ प्रथितरसदे मज्जयति तम्॥

10

इति श्रीरघुनाथदासगोस्वामिविरचितस्तवावल्यां श्रीशचीसून्वष्टकं सम्पूर्णम् ।॥