shrInavanItapriyAShTakam
Ashtakam
1
अलकावृतलसदलिके विरचितकस्तूरिकातिलके। चपलयशोदाबाले शोभितभाले मतिर्मेऽस्तु॥
2
मुखरितनूपुरचरणे कटिबद्धक्षुद्रघण्टिकावरणे। द्वीपिकरजकृतभूषणभूषितहृदये मतिर्मेऽस्तु॥
3
करधृतनवनवनीते हितकृतजननीविभीषिकाभिते। रतिमुद्वहताच्चेतो गोपीभिर्वश्यतां नीते॥
4
बालदशामतिमुग्धे चोरितदुग्धे व्रजाङ्गनाभवनात्। तदुपालम्भवचोभयविभ्रमनयने मतिर्मेऽस्तु॥
5
व्रजकर्दमलिप्ताङ्गे स्वरूपसुषमाजितानङ्गे। कृतनन्दाङ्गणरिङ्गण विविधविहारे मतिर्मेऽस्तु॥
6
करवरधृतलघुलकुटे विचित्रमायूरचन्द्रिकामुकुटे। नासागतमुक्तामणिजटितविभूषे मतिर्मेऽस्तु॥
7
अभिनन्दनकृतनृत्ये विरचितनिजगोपिकाकृत्ये। आनन्दितनिजभृत्ये प्रहसनमुदिते मतिर्मेऽस्तु॥
8
कामादपि कमनीये नमनीये ब्रह्मरुद्राद्यैः। निःसाधवभजनीये भावतनौ मे मतिर्भूयात्॥
9
इति श्रीहरिदासविरचितं श्रीनवनीतप्रियाष्टकं सम्पूर्णम्॥