Ganeshashtakam
Ashtakam
1
यतोऽनन्तशक्तेरनन्ताश्च जीवा यतो निर्गुणादप्रमेया गुणास्ते। यतो भाति सर्वं त्रिधा भेदभिन्नं सदा तं गणेशं नमामो भजामः॥
2
यतश्चाविरासीज्जगत्सर्वमेत- त्तथाब्जासनो विश्वगो विश्वगोप्ता। तथेन्द्रादयो देवसङ्घा मनुष्याः सदा तं गणेशं नमामो भजामः॥
3
यतो वह्निभानू भवो भूर्जलं च यतः सागराश्चन्द्रमा व्योम वायुः। यतः स्थावरा जङ्गमा वृक्षसङ्घा- स्तदा तं गणेशं नमामो भजामः॥
4
यतो दानवा किन्नरा यक्षसङ्घा यतश्चारणा वारणाः श्वापदाश्च। यतः पक्षिकीटा यतो वीरुधश्च सदा तं गणेशं नमामो भजामः॥
5
यतो बुद्धिरज्ञाननाशो मुमुक्षोः यतः सम्पदो भक्तसन्तोषिकाः स्युः। यतो विघ्ननाशो यतः कार्यसिद्धिः सदा तं गणेशं नमामो भजामः॥
6
यतः पुत्रसम्पद्यतो वाञ्छितार्थो यतोऽभक्तविघ्नास्तथाऽनेकरूपाः। यतः शोकमोहौ यतः काम एव सदा तं गणेशं नमामो भजामः॥
7
यतोऽनन्तशक्तिः स शेषो बभूव धराधारणेऽनेकरूपे च शक्तः। यतोऽनेकधा स्वर्गलोका हि नाना सदा तं गणेशं नमामो भजामः॥
8
यतो वेदवाचोऽतिकुण्ठा मनोभिः सदा नेति नेतीति यत्ता गृणन्ति। परब्रह्मरूपं चिदानन्दभूतं सदा तं गणेशं नमामो भजामः॥
9
इति श्रीगणेशपुराणे उपासनाखण्डे एकनवतितमोऽध्याये गणेशाष्टकं सम्पूर्णम्॥
10
श्रीगणेशपुराणं उपासना खण्डः। अध्याय ९१। १। ९१ ४४-५१॥
11
- .. shrIgaNeshapurANaM upAsanA khaNDaH . adhyAya 91 . 1.91 44-51.. (फलश्रुतिः। श्रीगणेश उवाच। पुनरूचे गणाधीशः स्तोत्रमेतत्पठेन्नरः। त्रिसन्ध्यं त्रिदिनं तस्य सर्वकार्यं भविष्यति॥
12
यो जपेदष्टदिवसं श्लोकाष्टकमिदं शुभम्। अष्टवारं चतुर्थ्यां तु सोऽष्टसिद्धीरवाप्नुयात्॥
13
यः पठेन्मासमात्रं तु दशवारं दिने दिने। स मोचयेद्बन्धगतं राजवध्यं न संशयः॥
14
विद्याकामो लभेद्विद्यां पुत्रार्थी पुत्रमाप्नुयात्। वाञ्छितान् लभते सर्वमेकविंशतिवारतः॥
15
यो जपेत्परया भक्त्या गजाननपऊ नरः। एवमुक्त्वा ततो देवश्चान्तर्धानं गतः प्रभुः॥
16
श्रीगणेशपुराणं उपासना खण्डः। अध्याय ९२। १। ९२ ८-१२॥