Shri Tanatulasidasacharya Ashtakam
Ashtakam
1
भक्तिप्रपत्तिदातारं जानकीजानकीशयोः। श्रीतनतुलसीदास द्वाराचार्यं नमाम्यहम्॥
2
पञ्चसंस्कारकर्त्तारं शिष्याणां वैष्ण्वोत्तमम्। श्रीतनतुलसीदासं द्वाराचार्यं नमाम्यहम्॥
3
रहस्यत्रयबोधस्य प्रदातारं महामुनिम्ज्ञ। श्रीतनतुलसीदासं द्वाराचार्यं नमाम्यहम्॥
4
रामानन्दयतीन्द्रस्य धर्माब्धिवर्धकं विधुम्। श्रीतनतुलसीदासं द्वाराचार्यं नमाम्यहम्॥
5
श्रीमदानन्दभाष्यस्य शिक्षकं भक्तरक्षकम्। श्रीतनतुलसीदासं द्वाराचार्यं नमाम्यहम्॥
6
जीवमायेशतत्त्वानां बोधक तत्त्ववित्तमम्। श्रीतनतुलसीदासं द्वाराचार्यं नमाम्यहम्॥
7
रामस्योपासनं दत्त्वा लोकानां मुक्तिदायिनम्। श्रीतनतुलसीदासं द्वाराचार्यं नमाम्यहम्॥
8
वादिसिद्धविजेतार ज्ञानवैराग्यवारिधिम्। श्रीतनतुलसीदासं द्वाराचार्यं नमाम्यहम्॥