Shri Radhakrishna Ashtakam

Ashtakam

1

यः श्रीगोवर्धनाद्रिं सकलसुरपतिं त्रस्तगोगोपवृन्दं स्वीयं संरक्षितञ्चेत्यमरसुखकरं मोहयन् सन्दधार। तन्मानं खण्डयित्वा विजितरिपुकुलो नीलधाराधराभः कृष्णो राधासमेतो विलसतु हृदये सोऽस्मदीये सदैव॥

2

यं दृष्ट्वा कंसभूपः स्वकृतकृतिमहो संस्मरन्मन्त्रिवर्यान् किं वा पूर्वं मयेदं कृतमिति वचनं दुःखितः प्रत्युवाच। आज्ञप्तो नारदेन स्मितयुतवदनः पूरयन्सर्वकामान् कृष्णो राधासमेतो विलसतु हृदये सोऽस्मदीये सदैव॥

3

येन प्रोद्यत्प्रतापा नृपतिकुलभवाः पाण्डवाः कौरवाब्धिं तीर्त्वा पारं तदीयं जगदखिवलनृणां दुस्तरञ्चेति जग्मुः। तत्पत्नीचीरवृद्धिप्रविदितमहिमा भूतले भूपतीशः कृष्णो राधासमेतो विलसतु हृदये सोऽस्मदीये सदैव॥

4

यस्मै चोद्धृत्य पात्राद्दधियुतनवनीतं करैर्गोपिकाभि- र्दत्तं तद्भावपूर्तौ विनिहितहृदयः सत्यमेवं तिरोधात्। मुक्तागुञ्जावलीभिः प्रचुरतमरुचिः कुण्डलाकान्तगण्डः कृष्णो राधासमेतो विलसतु हृदये सोऽस्मदीये सदैव॥

5

यस्माद्विश्वाभिरामादिह जननविधौ सर्वनन्दादिगोपाः संसारार्ते विमुक्ताः सकलसुखकराः सम्पदः प्रापुरेव। इत्थं पूर्णेन्दुवक्त्रः कलकमलदृशः स्वीयजन्म स्तुवन्तः कृष्णो राधासमेतो विलसतु हृदये सोऽस्मदीये सदैव॥

6

यस्य श्रीनन्दसूनोर्व्रजयुवतिजनाश्चागता भतृपुत्रां- स्त्यक्त्वा श्रुत्वा समीपे विचकितनयनाः सप्रमोदाः स्वगेहे। रन्तुं रासादिलीला मनसिजदलिता वेणुनादञ्च रम्यं कृष्णो राधासमेतो विलसतु हृदये सोऽस्मदीये सदैव॥

7

यस्मिन्दष्टे समस्ते जगति युवतयः प्राणनाथव्रताया- स्ता अप्येवं हि नूनं किमपि च हृदये कामभावं दधत्यः। तत्स्नेहाब्धिं वपुश्चेदविदितधरणौ सूर्यबिम्बस्वरूपाः कृष्णो राधासमेतो विलसतु हृदये सोऽस्मदीये सदैव॥

8

यः स्वीये गोकुलेऽस्मिन्विदितनिजकुलोद्भूतबालैः समेतो मातर्येवं चकार प्रसृततमगुणान्बाललीलाविलासान्। हत्वा वत्सप्रलम्बद्विविदबकखरान्गोपवृन्दं जुगोप कृष्णो राधा समेतो विलसतु हृदये सोऽस्मदीये सदैव॥

9

राधाकृष्णाष्टकं प्रातरुत्थाय प्रपठेन्नरः। य एवं सर्वदा नूनं स प्राप्नोति परां गतिम्॥

10

इति श्रीरघुनाथगुम्फितं श्रीराघाकृष्णाष्टकस्तोत्रं समाप्तम्॥