Bhramara Ashtakam

Ashtakam

1

गन्धाढ्यासौ भुवनविदिता केतकी स्वर्णवर्णा पद्मभ्रान्त्या क्षुधितमधुपः पुष्यमध्ये पपात। अन्धीभूतः कुसुमरजसा कण्टकैश्चिन्नपक्षः स्थातुं गन्तुं द्वयमपि सखे नैव शक्तो द्विरेफः॥

2

गन्धाढ्यां नवमल्लिकां मधुकरस्त्यक्त्वा गतो यूथिकां दैवात्ताञ्च विहाय चम्पकवनं पश्चात् सरोजङ्गतः। वङ्घस्तत्र निशाकरेण विधिना क्रन्दत्यसौ मूढधीः सन्तोषेण विना पराभवपदं प्राप्नोति मूढो जनः॥

3

येऽमी ते मुकुलोद्गमादनुदिनं त्वामाश्रिताः षट्पदा स्ते भ्राम्यन्ति फलाद्वहिर्बहिरतो दृष्ट्वा न सम्भाषसे। ये कीटास्तवदृक्पथञ्च न गतास्ते त्वत्फलाभ्यन्तरे धिक् त्वां चूत यतः परापरपरिज्ञानानभिज्ञो भवान्॥

4

नीतं जन्म नवीननीरजवने पीतं मधु स्वेच्छया मालत्याः कुसुमेषु येन सततं केली कृता हेलया। तेनेयं मधुगन्धलुब्धमनसा गुञ्जालतां सेव्यते हा धिग् दैवकृतं सएव मधुपः काङ्कां दशां नागतः॥

5

पलाशकुसुमभ्रान्त्या शुकतुण्डे मधुव्रतः। पतत्येष शुकोप्येनं जम्बुभ्रान्त्या जिघांसति॥

6

दृष्ट्वा स्फीतो भवदलिरसौ लेख्यपद्मं विशालं चित्रं चित्रं किमिति किमिति व्याहरन् निष्पपात। नास्मिन् गन्धो नच मधुकणा नास्ति तत्सौकुमार्यं घूर्णन्मूर्द्ध्ना बत नतशिरा व्रीडया निर्जगाम॥

7

अलिरसौ नलिनीवनवल्लभः कुमुदिनीकुलकेलिकलारसः। विधिवशेन विदेशमुपागतः कुटजपुष्परसं बहु मन्यते॥

8

रात्रिर्गमिष्यति भविष्यति सुप्रभातं भास्वानुदेष्यति हसिष्यति पद्मजालम्। इत्थं विचिन्तयति कोषगते द्विरेफे हा हन्त हन्त नलिनीं गज उज्जहार॥