bAlamukundAShTakaM
Ashtakam
1
करारविन्देन पदारविन्दं मुखारविन्दे विनिवेशयन्तम्। वटस्य पत्रस्य पुटे शयानं बालं मुकुन्दं मनसा स्मरामि॥
2
संहृत्य लोकान्वटपत्रमध्ये शयानमाद्यन्तविहीनरूपम्। सर्वेश्वरं सर्वहितावतारं बालं मुकुन्दं मनसा स्मरामि॥
3
इन्दीवरश्यामलकोमलाङ्गं इन्द्रादिदेवार्चितपादपद्मम्। सन्तानकल्पद्रुममाश्रितानां बालं मुकुन्दं मनसा स्मरामि॥
4
लम्बालकं लम्बितहारयष्टिं शृङ्गारलीलाङ्कितदन्तपङ्क्तिम्। बिंबाधरं चारुविशालनेत्रं बालं मुकुन्दं मनसा स्मरामि॥
5
शिक्ये निधायाद्यपयोदधीनि बहिर्गतायां व्रजनायिकायाम्। भुक्त्वा यथेष्टं कपटेन सुप्तं बालं मुकुन्दं मनसा स्मरामि॥
6
कलिन्दजान्तस्थितकालियस्य फणाग्ररङ्गे नटनप्रियन्तम्। तत्पुच्छहस्तं शरदिन्दुवक्त्रं बालं मुकुन्दं मनसा स्मरामि॥
7
उलूखले बद्धमुदारशौर्यं उत्तुङ्गयुग्मार्जुन भङ्गलीलम्। उत्फुल्लपद्मायत चारुनेत्रं बालं मुकुन्दं मनसा स्मरामि॥
8
आलोक्य मातुर्मुखमादरेण स्तन्यं पिबन्तं सरसीरुहाक्षम्। सच्चिन्मयं देवमनन्तरूपं बालं मुकुन्दं मनसा स्मरामि॥
9
इति श्री बिल्वमङ्गलठाकुरविरचितम् बालमुकुन्दाष्टकं सम्पूर्णम्॥
10
श्रीकृष्णकरणामृतान्तर्गतम् करारविन्देन पदारविन्दं मुखारविन्दे विनिवेशयन्तम्। वटस्य पत्रस्य पुटे शयानं बालं मुकुन्दं मनसा स्मरामि॥
11
आकुञ्चितं जानु करं च वामं न्यस्य क्षितौ दक्षिणहस्तपद्मे। आलोकयन्तं नवनीतखण्डं बालं मुकुन्दं मनसा स्मरामि॥