Shri Svayambhagavattvashtakam

Ashtakam

1

स्वजन्मन्यैश्वर्यं बलमिह वधे दैत्यवितते- र्यशः पार्थत्राणे यदुपुरि महासम्पदमधात्। परं ज्ञानं जिष्णौ मुषलमनु वैराग्यमनु यो भगैः षड्भिः पूर्णः स भवतु मुदे नन्दतनयः॥

2

चतुर्बाहुत्वं यः स्वजनि समये यो मृदशने जगत्कोटीं कुक्ष्यन्तरपरिमितत्वं स्ववपुषः। दधिस्फोटे ब्रह्मण्यतनुत परानन्ततनुतां महैश्वर्यः पूर्णः स भवतु मुदे नन्दतनयः॥

3

बलं बक्यां दन्तच्छदनवरयोः केशिनि नृगे निऋपे बाह्वोरङ्घ्रेः फणिनि वपुषः कंसमरुतोः। गिरित्रे दैत्येष्वप्यतनुत निजास्त्रस्य यदतो महौजोभिः पूर्णः स भवतु मुदे नन्दतनयः॥

4

असङ्ख्यातो गोप्यो व्रजभुवि महिष्यो यदुपुरे सुताः प्रद्युम्नाद्याः सुरतरुसुधर्मादि च धनम्। बहिर्द्वारि ब्रह्माद्यापि बलिवहं स्तौति यदतः श्रियां पूरैः पूर्णः स भवतु मुदे नन्दतनयः॥

5

यतो दत्ते मुक्तिं रिपुविततये यन् नरजनि- र्विजेता रुद्रादेरपि नतजनाधीन इति यत्। सभायां द्रौपद्या वरकृदतिपूज्यो नृपमखे यशोभिस्तत्पूर्णः स भवतु मुदे नन्दतनयः॥

6

न्यधाद्गीतारत्नं त्रिजगदतुलं यत्प्रियसखे परं तत्त्वं प्रेम्णोद्धवपरमभक्ते च निगमम्। निजप्राणप्रेस्ठास्वपि रसभृतं गोपकुलजा- स्वतो ज्ञानैः पूर्णः स भवतु मुदे नन्दतनयः॥

7

कृतागस्कं व्याधं सतनुमपि वैकुण्ठमनयन् ममत्वस्यैकाग्रानपि परिजनान् हन्त विजहौ। यद्यप्येते श्रुत्या धुवतनुतयोक्तास्तदपि हा स्ववैराग्यैः पूर्णः स भवतु मुदे नन्दतनयः॥

8

अजत्वं जन्मित्वं रतिररतितेहारहितता सलीलत्वं व्याप्तिः परिमितिरहंताममतयोः। पदे त्यागात्यागावुभयमपि नित्यं सदुररी करोतीशः पूर्णः स भवतु मुदे नन्दतनयः॥

9

समुद्यत्सन्देहज्वरशतहरं भेषजवरं जनो यः सेवेत प्रथितभगवत्त्वाष्टकमिदम्। तदैश्वर्यस्वादैः स्वधियमतिवेलं सरसयन् लभेतासौ तस्य प्रियपरिजनानुग्यपदवीम्॥

10

इति श्रीविश्वनाथचक्रवर्तिठक्कुरविरचितस्तवामृतलहर्यां श्रीश्रीस्वयंभगवत्त्वाष्टकं सम्पूर्णम् ।॥