Sarasvati Ashtakam
Ashtakam
1
श्रीगणेशाय नमः। शतानीक उवाच। महामते महाप्राज्ञ सर्वशास्त्रविशारद। अक्षीणकर्मबन्धस्तु पुरुषो द्विजसत्तम॥
2
मरणे यज्जपेज्जाप्यं यं च भावमनुस्मरन्। परं पदमवाप्नोति तन्मे ब्रूहि महामुने॥
3
शौनक उवाच। इदमेव महाराज पृष्टवांस्ते पितामहः। भीष्मं धर्मविदां पृष्ठेदं धर्मपुत्रो युधिष्ठिरः॥
4
युधिष्ठिर उवाच। पितामह महाप्राज्ञ सर्वशास्त्रविशारद। बृहस्पतिस्तुता देवी वागीशाय महात्मने। आत्मानं दर्शयामास सूर्य कोटिसमप्रभम्॥
5
सरस्वत्युवाच। वरं वृणीष्व भद्रं ते यत्ते मनसि वर्तते। बृहस्पतिरुवाच। यदि मे वरदा देवि दिव्यज्ञानं प्रयच्छ मे॥
6
देव्युवाच। हन्त ते निर्मलं ज्ञानं कुमतिध्वंसकारकम्। स्तोत्रेणानेन ये भक्त्या मां स्तुवन्ति मनीषिणः॥
7
बृहस्पतिरुवाच। लभते परमं ज्ञानं यत्सुरैरपि दुर्लभम्। प्राप्नोति पुरुषो नित्यं महामायाप्रसादतः॥
8
सरस्वत्युवाच। त्रिसन्ध्यं प्रयतो नित्यं पठेदष्टकमुत्तमम्। तस्य कण्ठे सदा वासं करिष्यामि न संशयः॥
9
इति श्रीपद्मपुराणे दिव्यज्ञानप्रदायकं सरस्वत्यष्टकस्तोत्रं सम्पूर्णम्॥