Guru Paduka Stotram

Guru Paduka Stotram

1

श्रीगुरुपादुकापञ्चकम् २ ॐ नमो गुरुभ्यो गुरुपादुकाभ्यो नमः परेभ्यः परपादुकाभ्यः । आचार्य-सिद्धेश्वर-पादुकाभ्यो नमो नमः श्रीगुरुपादुकाभ्यः

2

ऐङ्कार-ह्रीङ्कार-रहस्ययुक्त - श्रीङ्कार-गूढार्थ-महाविभूत्या । ओङ्कार-मर्म-प्रतिपादिनीभ्यां नमो नमः श्रीगुरुपादुकाभ्याम्

3

होत्राग्नि-हौत्राग्नि-हविष्य-होतृ- होमादि-सर्वाकृति-भासमानम् । यद्ब्रह्म तद्बोधवितारिणीभ्यां नमो नमः श्रीगुरुपादुकाभ्याम्

4

कामादिसर्पव्रजगारुडाभ्यां विवेकवैराग्यनिधिप्रदाभ्याम् । बोधप्रदाभ्यां द्रुतमोक्षदाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम्

5

अनन्त-संसार-समुद्रतार- नौकायिताभ्यां स्थिरभक्तिदाभ्याम् । जाड्याब्धि-संशोषण-वाडवाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम्