shrIruchirAShTakam 1

Ashtakam

1

सर्वत्र यः प्रकटयन् भुवि सद्गुणान् स्वान् श्रीविठ्ठलो हरिरिह स्वयमेव योऽभूत्। तं नित्यकान्तमथ सर्वगुणैकरूपं श्रीवल्लभप्रभुमहं सततं स्मरामि॥

2

रूपामृतानि निजसेविजनाय दातुं यः सन्दधार स हि लौकिकचारुदेहम्। आनन्दमात्रनिखिलावयवस्वरूपं भूयो भजामि सुभगं भुवि गोकुलेशम्॥

3

पुष्पोचितस्मितलसल्ललनालताभि- रालिङ्गितं निजजनेप्सितसत्फलाढ्यम्। श‍ृङ्गारकल्पतरुमत्र कमप्यनल्पं श्रीगोकुलोदितमहं सततं भजामि॥

4

योषिद्भिरद्भुतमशेषहृषीकपात्रैः पेपीयमानपरिपूर्णरसस्वरूपम्। ब्रह्मादिदुर्लभमनन्यजनैकलभ्यं श्रीवल्लभं तमनिशं सुभगं भजामि॥

5

सौभाग्यभूमिजनितं त्रिजगद्वधूनां लावण्यसिन्धुलहरीपरिषिक्तगात्रम्। श‍ृङ्गारशेखरमनन्तयशःस्वरूपं श्रीगोकुलेश्वरमेव सदा भजामि॥

6

सौन्दर्यपद्ममधुवञ्चितमानसैस्तु संसेवितं मधुकरैः क्षितिसुन्दरीणाम्। आनन्दकन्दमरविन्ददलायताक्षं तं गोकुलावनिगतं निभृतं भजामि॥

7

श‍ृङ्गारसारनिजरूपरसं पदाब्जं भृङ्गायितेभ्य इह पाययितुं जनेभ्यः। सौन्दर्यसीमनिकषं दधतं स्ववेशं श्रीगोकुलेशमनिशं तमहं भजामि॥

8

श‍ृङ्गारमेव वनितोत्सवमूर्मिन्तं भाग्येन केनचिदिहावतरन्तमुर्व्याम्। श्रीविठ्ठलाङ्गजनुपं स्वकुलावतंसे सन्तं भजामि सततं प्रभुगोकुलेशम्॥

9

इत्थं प्रभोर्निजप्रभातुलमातुलस्य श्रीवल्लभस्य रुचिराष्टकमादरेण। श्रीकृष्णरायकृतमिष्टदमेतदीय- पादारविन्दयुगलस्मरणेन जप्यम्॥