Skandaproktam Kalanathashtakam

Ashtakam

1

(शिवरहस्यान्तर्गते महादेवाख्ये) भैरवं पूजयेद्भक्त्या स्रग्गन्धाभरणार्चनैः। हविषा वापि ताम्बूलैर्माषापूपैः समर्चयेत्॥

2

काश्यां निर्विघ्नवासाय भौमाष्टम्यां विशेषतः। सम्पूज्य संस्तुवीतैवं काश्यां श्रीकालभैरवम्॥

3

कपालमालिकाकण्ठं ज्वलत्पावकलोचनम्। कपालकरमत्युग्रं कलये कालभैरवम्॥

4

मणिपादुकपादाब्जं महाशूलकराम्बुजम्। कन्थाकञ्चुकसङ्क्रान्तं कलये कालभैरवम्॥

5

दिगम्बरं जपावर्णं जरामरणवर्जितम्। चारुचन्द्रजटाजूटं कलये कालभैरवम्॥

6

बालभानुप्रभाकारं नीलकोमलकञ्चुकम्। ज्वलद्दण्डकपालाढ्यं कलये कालभैरवम्॥

7

सुरारिवरदावाग्निं सुरकैरवशीतगुम्। शिवाज्ञाकारकं साक्षात् कलये कालभैरवम्॥

8

यस्याज्ञया जगत्सर्वं स्थावरं जङ्गमं तथा। वर्तते निर्भयं काश्यां कलये कालभैरवम्॥

9

य इदं कालनाथस्य पठेद्भक्त्याऽष्टकं नरः। स एव लभते काशीं निर्विघ्नेन शिवाज्ञया॥

10

तत्रैव वसते जन्तुः पूजनस्तवनेन च। ७६। १॥

11

इति शिवरहस्यान्तर्गते स्कन्दप्रोक्तं कालनाथाष्टकं सम्पूर्णम्॥

12

श्रीशिवरहस्यम्। महादेवाख्यः एकादशमांशः। अध्यायः २६। ६७-७६.१॥