Guha Ashtakam

Ashtakam

1

श्रीगणेशाय नमः। शान्तं शम्भुतनूजं सत्यमनाधारं जगदाधारं ज्ञातृज्ञाननिरन्तरलोकगुणातीतं गुरुणातीतम्। वल्लीवत्सलभृङ्गारण्यकतारुण्यं वरकारुण्यं सेनासारमुदारं प्रणमत देवेशं गुहमावेशम्॥

2

विष्णुब्रह्मसमर्च्यं भक्तजनादित्यं वरुणातिथ्यं भावाभावजगत्त्रयरूपमथारूपं जितसारूपम्। नानाभुवनसमाधेयं विनुताधेयं वरराधेयं केयुराङ्गनिषङ्गं प्रणमत देवेशं गुहमावेशम्॥

3

स्कन्दं कुङ्कुमवर्णं स्पन्दमुदानन्दं परमानन्दं ज्योतिःस्तोमनिरन्तररम्यमहस्साम्यं मनसायाम्यम्। मायाश‍ृङ्खलबन्धविहीनमनादीनं परमादीनं शोकापेतमुदात्तं प्रणमत देवेशं गुहमावेशम्॥

4

व्यालव्यावृतभूषं भस्मसमालेपं भुवनालेपं ज्योतिश्चक्रसमर्पितकायमनाकायव्ययमाकायम्। भक्तत्राणनशक्त्या युक्तमनुद्युक्तं प्रणयासक्तं सुब्रह्मण्यमरण्यं प्रणमत देवेशं गुहमावेशम्॥

5

श्रीमत्सुन्दरकायं शिष्टजनासेव्यं सुजटासेव्यं सेवातुष्टसमर्पितसूत्रमहासत्रं निजषड्वक्त्रम्। प्रत्यर्त्थ्यानतपादसरोरुहमावाहं भवभीदाहं नानायोनिमयोनिं प्रणमत देवेशं गुहमावेशम्॥

6

मान्यं मुनिभिरमान्यं मञ्जुजटासर्पं जितकन्दर्पं आकल्पामृततरलतरङ्गमनासङ्गं सकलासङ्गम्। भासा ह्यधरितभास्वन्तं भविकस्वान्तं जितभीस्वान्तं कामं कामनिकामं प्रणमत देवेशं गुहमावेशम्॥

7

शिष्टं शिवजनतुष्टं बुधहृदयाकृष्टं हृतपापिष्ठं नादान्तद्युतिमेकमनेकमनासङ्गं सकलासङ्गम्। दानविनिर्जितनिर्जरदारुमहाभीरुं तिमिराभीरुं कालाकालमकालं प्रणमत देवेशं गुहमावेशम्॥

8

नित्यं नियमिहृदिस्थं सत्यमनागारं भुवनागारं बन्धूकारुणललितशरीरमुरोहारं महिमाहारम्। कौमारीकरपीडितपादपयोजातं दिवि भूजातं कण्ठेकालमकालं प्रणमत देवेशं गुहमावेशम्॥