Shri Shri Bhasha AshtakaM
Ashtakam
1
आगच्छ वरदे मातः सुतकल्याणतत्परे। नाशय हृदयध्वान्तं ज्ञानमयेन तेजसा॥
2
प्रसिच्य चित्तं करुणापयोभिः स्वनुर्वं क्षेत्रमिदं सुतानाम्। ज्ञानस्य बीजं विविधं विधात्रि संरोप्यतां नो भवदुःखहन्त्रि॥
3
वीणापुस्तकधारिणी भगवती देवासुरैर्वन्दिता, श्वेताम्भोजनिवासिनी सुवरदा कल्याणविस्तारिणी। या शुभ्रांशुसमानना दुरितहा या शुभ्रपद्मासना, सा नः पातु सरस्वती स्मितमुखी सन्तानशर्मप्रदा॥
4
सरस्वती श्वेतमरालवाहा अनाथनाथा करुणाविधात्री। शुधांशुशुभ्रा परमा परेशी करोतु नित्यं विदुषां शुभं सा॥
5
सुतमानसपङ्कजनौ मलिने चरणाम्बुजरेणुसमूहशुचौ। कृपया करुणामयि कृष्णकचे वस भारति भारतभव्यप्रदे॥
6
शशधरसितहंसैर्वेष्टिता ज्ञानदात्री निखिलभुवनकर्त्री भारती ब्रह्मपुत्री। अकृतितनयदुःखे कातरा त्राणकर्त्री जयति जयति देवी वल्लकीवाद्यकर्त्री॥
7
विमलकमलशोभां धारयन्ती मनोज्ञां, तनयकुशलदात्री पद्मिनी चित्स्वरूपा। अमरदनुजवन्द्या कच्छपीन्यस्तहस्ता, नयतु हृदयमोहव्यूहनाशं दयार्द्रा॥
8
निरस्य मोहं हृदये निलीनं प्रबाधकं मुक्तिधनस्य घोरम्। प्रेक्षा सुतानां चरणे त्वदीये सम्प्रेष्यतां भो वचसामधीशे॥