Bhajana Ashtakam

Ashtakam

1

(कोकिलक वृत्तम्) विहरति योऽक्षरेऽक्षर-पदाक्षर-मुक्तपतिः पुरुषविधो विधिं विधिहरीश्वरमुख्यबुधाः। शिरसि वहन्ति ते समुदितं किल येन मुदा हृदि तमजं भजे भवहरं हरिकृष्णमहम्॥

2

प्रकृतिमया गुणा न च भवन्ति हि यत्र हरौ- इति निगमागमा अपि वदन्ति च निर्गुणकम्। इति सगुणं गुणैरपि युतं परदिव्यशुभै- र्हृदि तमजं भजे भवहरं हरिकृष्णमहम्॥

3

शमदम-कौशलसमृति-तपोबल-कान्तिभग- श्रुतशुचिसत्यता-स्ववशतार्जव-कीर्तिमुखाः। अपरिमिता गुणा ध्रुवतयात्र वसन्ति सदा हृदि तमजं भजे भवहरं हरिकृष्णमहम्॥

4

प्रकृति-पराक्षरे बृहति धामनि मूर्तिधरैर् निगमनिजायुधैश्च निजपार्षद-मुख्यगणैः। उरु य उपास्यतेऽपि रमया रमणीयतनुर् हृदि तमजं भजे भवहरं हरिकृष्णमहम्॥

5

निखिलभगैश्च योऽक्षरपदे दिवि देवगणै- रखिलविभूतिभिर्विभवभूमिरुपास्यत ए। रतिपतिदर्पहा-रमणरम्यक-रूपनिधिर् हृदि तमजं भजे भवहरं हरिकृष्णमहम्॥

6

विजितमनोभवा भुवि भजन्ति च यं सततं शमदमसाधनैः प्रशमितेन्द्रिय-वाजिरयाः। प्रकटित-मानुषाकृतिमिमे मुनिदेवगणा हृदि तमजं भजे भवहरं हरिकृष्णमहम्॥

7

द्विज-वृष-साधुगो-मुनिगणानवितुं भुवि यो वृषभवने वृषाद् धृतजनिर्जनको जगताम्। प्रकृतिभुवामपि प्रशमितुं यदधर्मकुलं हृदि तमजं भजे भवहरं हरिकृष्णमहम्॥

8

ऋषिभिरभिष्टुतो नृपगणैर्नत-पादतलः श्रुतिशिरसां गणैरुदितसूज्जवल-कीर्तिरसौ। अतिकृतिभिः प्रगीत इति यः कविकोकिलकैर् हृदि तमजं भजे भवहरं हरिकृष्णमहम्॥

9

इति श्रीयोगानन्दमुनिविरचितं भजनाष्टकं सम्पूर्णम् ।॥