Shri Krishnachandrashtakam 2
Ashtakam
1
श्रीकेवलरामप्रणीतम् वनभुवि विहरन्तौ तच्छविं वर्णयन्तौ सुहृदमनुसरन्तौ दुर्हृदं सूदयन्तौ। उपयमुनमटन्तौ वेणुनादं सृजन्तौ भज हृदय हसन्तौ रामकृष्णौ लसन्तौ॥
2
कलयसि भवरीतिं नैव चेद्भूरिभूतिं यमकृतनिगृहीतिं तर्हि कृत्वा विनीतिम्। जहिहि मुहुरनीतिं जायमानप्रतीतिं कुरु मधुरिपुगीतिं रे मनो मान्यगीतिम्॥
3
द्विपपरिवृढदन्तं यः समुत्पाट्य सान्तं सदसि परिभवन्तं लीलया हन्त सान्तम्। स्वजनमसुखयन्तं कंसमाराद्भ्रमन्तं सकलहृदि वसन्तं चिन्तयामि प्रभुं तम्॥
4
करधृतनवनीतः स्तेयतस्तस्य भीतः पशुपगणपरीतः श्रीयशोदागृहीतः। निखिलनिगमगीतः कालमायाद्यभीतः कनकसदुपवीतः श्रीशुकादिप्रतीतः॥
5
सकलजननियन्ता गोसमूहानुगन्ता व्रजविलसदनन्ताभीरुगेहेषु रन्ता। असुरनिकरहन्ता शक्रयागावमन्ता जयति विजयियन्ता वेदमार्गाभिमन्ता॥
6
सुकृतिविहितसेवो निर्जितानेकदेवो भवविधिकृतसेवः प्रीणिताशेषदेवः। स्म नयति वसुदेवो गोकुलं यं मुदे वो भवतु स यदुदेवः सर्वदा वासुदेवः॥
7
करकजधृतशैले प्रोल्लसत्पीतचैले ?? मय् बे चोर्रेच्त् रुचिरनवघनाभे शोभने पद्मनाभे। विकचकुसुमपुञ्जे शोभमाने निकुञ्जे स्थितवति कुरु चेतः प्रीतिमन्यत्र नेतः॥
8
विषयविरचिताशे प्राप्तसंसारपाशे- ऽनवगतनिजरूपे सृष्टकर्मण्यपूपे। सुकृतकृतिविहीने श्रीहरे भक्तिहीने मयि कृतय समन्तौ केवले दीनजन्तौ॥