Turaja Ashtakam 2

Ashtakam

1

शङ्करउवाच - उन्मील्ये नेत्रसहस्रां ददर्शाग्रे स्थितां शिवाम्। अनुभूतिर्महतेजा पतिभक्तिपरायणा॥

2

प्रणम्यदण्डवद्भूमौ कृताञ्जलिरभाषत। श्रीअनुभूतिरुवाच - नमस्तुभ्यं जगद्धात्र्यै शिवायै सततं नमः। त्वरितायै महोग्रायै तुरजायै नमोऽस्तुते॥

3

सत्त्वायै सत्त्वरूपायै मोहिन्यै ते नमो नमः। नमो जगत्प्रतिष्ठायै जगत्प्राणभ्रते नमः॥

4

षट्चक्रभेदकायै ते षट्चक्रायै नमो नमः। मन्त्रमार्गप्रवर्तिन्यै घटस्थायै नमो नमः॥

5

कुण्डलिन्यै नमोऽस्तुभ्यं बीजायै ते नमो नमः। पद्मकिञ्जल्कवर्णायै हरितायै नमो नमः॥

6

पद्मप्रबोधकारिण्यै पद्मस्थायै नमो नमः। कृष्णायै कृष्णवर्णायै धूम्रायै सततं नमः॥

7

श्वेतायै श्वेतरूपायै लोहितायै नमोऽस्तुते। नीलायै कपिलायै ते कर्बुरायै नमोऽस्तुते॥

8

अति सौम्याति रौद्रायै शर्वाण्यै ते नमो नमः। स्थूलायै सूक्ष्मरूपायै मध्यमायै नमोऽस्तुते॥

9

कनिष्ठायै जघन्यायै उत्तमायै नमोऽस्तुते। बहिरन्तस्थितायै ते व्यापकायै नमो नमः॥

10

श्रीशङ्कर उवाच - इति स्तुत्वान्नुभूतिः सा त्वरितां पुरतस्थिताम्। ययाचेतद्वधा याशु वरं दैत्यं भयावहम्॥

11

त्वरितोवाच - ममाष्टकं पठेद्यस्तु त्वत्कृतं द्विजवल्लभे। श्रुणोतिवा मानुषोहि मम साम्यं व्रजेदिति॥

12

भुक्त्वा भोगान् यथा कामान् पुत्रपौत्रसमन्वितान्। विद्यावान् कुलसम्पन्नः सुखी सौख्यान् प्रपद्यते॥

13

दीर्घायुष्यञ्च लभते नात्र कार्या विचारणा। इति श्रीअनुभूतीकृतं तुरजाष्टकं सम्पूर्णम्॥

14

तुलजाष्टकम्, तुळजाष्टकम्॥