Shri Naraharyanandacharya Ashtakam

Ashtakam

1

चिन्तकानां च रामस्य शिरोमणिमनुत्तमम्। नृहर्यानन्दमीडेऽहं द्वाराचार्यं जगद्गुरुम्॥

2

आश्रितानां च लोकानां कल्याणकल्पपादपम्। नृहर्यानन्दमीडेऽहं द्वाराचार्यं जगद्गुरुम्॥

3

आनन्दभाष्यबोद्धारं भक्तिदानेन मुक्तिदम्। नृहर्यानन्दमीडेऽहं द्वाराचार्यं जगद्गुरुम्॥

4

रामानन्दीयधर्मस्य महाविस्तारकारकम्। नृहर्यानन्दमीडेऽहं द्वाराचार्य जगद्गुरुम्॥

5

अनन्तानन्दशिष्यं च तुलसीदाससद्गुरुम्। नृहर्यानन्दमीडेऽहं द्वाराचार्यं जगद्गुरुम्॥

6

योगीन्द्रसिद्धभूपालप्राज्ञवृन्दोपसेवितम्। नृहर्यानन्दमीडेऽहं द्वाराचार्यं जगद्गुरुम्॥

7

मन्त्रार्थानां त्रयाणां च शिक्षकं शान्तिरक्षकम्। नृहर्यानन्दमीडेऽहं द्वाराचार्यं जगद्गुरुम्॥

8

दत्त्वा च पञ्च संस्कारान् सद्भक्तियोग्यताप्रदम्। नृहर्यानन्दमीडेऽहं द्वाराचार्यं जगद्गुरुम्॥