Shri Deshika Ashtakam

Ashtakam

1

श्रीगणेशाय नमः। श्री गुरुभ्यो नमः। विश्वदर्पणदृश्यतासमतामुपादिशदादरात् विश्ववन्दितपादपङ्कजतत्त्वबोधनिदानवित्। विश्वदेशिकराजराण्मम मानसे परिवर्ततां तं गुरुं कृतहन्तृताघनिवृत्तये स्मरतास्तिकाः॥

2

योहिभट्टमुखेननाशितबौद्धवृन्दजगत् सुरै- रर्थितोऽवततार वैदिकतत्त्वबोधविवृद्धये। लीलयाऽखिलवेदशास्त्रविदादिमाश्रमचर्यया दीनपोषणमातृतोषण विस्मिताखिलपावनः॥

3

साधुबोधितमातृसम्मतियोगसेवितयोगिराट् नर्मदाझरनिग्रहग्रहदेशिकानुमतो गुरुः। गाङ्गरोधसि संवसन्मुनिमण्डलैः परिशीलयन् सूत्रवेदशिरस्सुगीतसनत्सुजातसहस्रकम्॥

4

भाष्यभूषितमागताब्जपदादिनेयमबोधयत् व्यासतोषणवादघोरणिरीशदत्तवरेड्यराट्। भट्टपादनिदेशमण्डनमिश्रवादविशारदो भारतीमपि सञ्जयन्नमरूर्ग्जयन् नृहरिं स्तुवन्॥

5

शिष्यमण्डनखण्डिताखिलवादिवादविजृम्भणो मूकमातृमुखालयाटनहस्तधात्रिनिषेवितः। ऋश्यश‍ृङ्गपुरे वसन्नुरु शारदालयमातनोत् पद्मपादहतार्थितोत्तमगात्रभैरवपूजनः॥

6

तोटकार्चितपादमर्दितपद्मगर्वसुजाह्नवी- दर्शिताब्जपदागमोद्धृतभेदबुद्धिविनेयराट्। मातृसद्गतिसादरः कृतशापदायजनः श्रमात् तीर्थयात्रसरोजपादसुकेरळेन्द्रमनःक्लमम्॥

7

सारगीर्भिरपास्य वीक्षितशिष्यकोटिकृतिक्रमः सेतुकाञ्चिपुरादिसेवनशाक्तखण्डनदक्षधीः। अश्विबोधितपद्मधिक्कृतदुष्प्रयोगनिपीडनो मोदमाननताङ्घ्रिदेशिकगौडपादनुमोदितः॥

8

पद्मदत्तकरावलम्बनमारुरोह स सर्ववि- त्पीठमुत्तरदक्षिणो बहुवादिशारदयाऽऽदृतः। उष्णनद्यवगाहर्षितशिष्यपूजितपद्मभू - नन्दिसेवितसोममूर्तिरुपाययौ रजतागमम्॥

9

देशिकाष्टकमष्टसिद्धिदमष्टमूर्तिकृतक्रमं कष्टनाशनमिष्टदायकमष्टदिक्षु सुकीर्तिदम्। देशिकाय नमोऽस्तु ते मृतबालजीवदयाभुवे कारणाय नमोऽस्तु ते परिपूरणाय नमोऽस्तु ते॥