Shri Dharmanandana Ashtakam
Ashtakam
1
मुक्तानां सदसि सदा विराजमानं पूर्णेन्दु-प्रवरमुखाब्ज-पत्रनेत्रम्। मन्दार-स्थलरुह-कुन्दसारहारं धर्माङ्ग-प्रभवमहं हरिं प्रपद्ये॥
2
अभोज-ध्वजकलशां-कुशोर्ध्वेरेखा गोपाद-प्रमुखसुलक्ष्म-पादपद्मम्। सामोद-भ्रमरविगुञ्जिता-वचूलं धर्माङ्ग-प्रभवमहं हरिं प्रपद्ये॥
3
भक्तेभ्यो विहितसबीज-साङ्ख्ययोगं प्रावारप्रचलित-कञ्चुकाभिरामम्। श्रीखण्ड-प्रवर-तमालपत्र-मीशं धर्माङ्ग-प्रभवमहं हरिं प्रपद्ये॥
4
विद्योतन्मणिमय-हेमकुण्डल-श्री- कर्णाग्रोत्तम-कुसुमा-वतंसरम्यम्। श्रीवत्सोल्लसित-भुजान्तरं सदीशं धर्माङ्ग-प्रभवमहं हरिं प्रपद्ये॥
5
संसार-प्रशमन-कारण-प्रतापं बिभ्राणं सुरुचिर मौक्तिकीञ्च मालाम्। हस्ताग्रे सुललित-मालिकां दधानं धर्माङ्ग-प्रभवमहं हरिं प्रपद्ये॥
6
शान्तानां विदलित-मानमत्सराणां कामादिप्रबल-विपक्षनिर्जयानाम्। साधूना-मनिश-मवेक्षणीय-रूपं धर्माङ्ग-प्रभवमहं हरिं प्रपद्ये॥
7
वेदान्तै-रुदित-सुकीर्ति-माप्तकामं जुष्टाङ्घ्रिं विजितविदूषणैर्मुनिन्द्रैः। ब्रह्माण्ड-स्थपति-सुरेश्वरैकनाथं धर्माङ्ग-प्रभवमहं हरिं प्रपद्ये॥
8
रम्याणां विमल-सुवर्णभूषणानां श्रीमत्तामवयव-शोभाया दधानम्। घर्मान्त-प्रभाव-नवीन-मेघनीलं धर्माङ्ग-प्रभवमहं हरिं प्रपद्ये॥
9
इति श्री अचिन्त्यानन्दब्रह्मचारीविरचितं श्रीधर्मनन्दनाष्टकं सम्पूर्णम् ।॥