Shri Nimbarka Mahima Ashtakam

Ashtakam

1

राधामुकुन्दाऽङ्घ्रिसरोजभृङ्गं भक्तेष्टवाञ्छातरुमाप्त सेव्यम्। नवाम्बुदश्यामलगञ्जुलाङ्गं निम्बार्कमाचार्यमनुस्मरामि॥

2

आचर्यवर्यं हरिचक्रराजं भवाऽब्धिसेतुं भयमुक्तिहेतुम्। गिरीन्द्रगोवर्धनराजमानं निम्बार्कदेवं हृदि भावयामि॥

3

सुमन्दमेधारतिदानशीलं निकुञ्जकुञ्जान्तरनित्यवासम्। श्रीकृष्णलीलारसपानमत्तं निम्बार्क-देवं मनसा स्मरामि॥

4

पाखण्डकण्डूशमनप्रवीणं श्रुत्यर्थ-सम्यक्पथबोधशीलम्। गोविन्द-भक्त्या-रसवृष्टिकारमाचार्यनिम्बार्कमिहस्मरामि॥

5

अनन्तकारुण्यगुणैकधाम प्रशान्तचित्तं प्रचुरप्रभावम्। प्रेमातिसान्द्रं परिपूर्णकामं निम्बार्कमीडे रससन्निधानम्॥

6

वेदान्त-गीताकृतदिव्यभाष्यं स्वाभाविकं भिन्नमभिन्नरूपम्। संस्थापितं वै निजवादमाद्यं तं निम्बभानुं शिरसा नमामि॥

7

सर्वेश्वराराधनदत्तचेतः देवर्षिवर्येण च लब्धदीक्षः। श्रीधामवृन्दावनकुञ्जसेवी निम्बार्कवर्यो खलु मे गतिः स्यात्॥

8

यतिस्वरूपाय पितामहाय व्यालोकितो निम्बतरौ दिनेशः। तं भानुकोटिप्रभमाशुरेव निम्बार्कमन्तः सततं स्मरामि॥

9

स्तोत्रं पुण्यकरं चारु निम्बार्कमहिमाष्टकम्। राधासर्वेश्वराख्येन शरणान्तेन निर्मितम्॥