MukhyaprAna Ashtakam
Ashtakam
1
भक्तिं श्रीरमणस्य पादयुगले प्रीत्या प्रदेहीश मच्चितं तत्पादपद्मचिन्तनरतं नित्यं विधेह्यच्युतम्। त्वत्तातं मयि सुप्रसन्नमधुना विज्ञाप्य कुर्वञ्जसा स्वामिन्प्राणगणाधिनाथ दयया दासं हि मां पालय॥
2
त्वय्युत्तिष्ठति यत्कलेवरमभूत्पातैकपात्रं सुरा- स्त्रातुं नैव हि शेकुरादिपुरुषोऽप्यासीदुपेक्षारतः। श्वासाख्यं मनुमस्य यत्तव वशं ब्रूतेऽविगीता श्रुतिः सत्वं प्राणगणाधिनाथ दयया दासं हि मां पालय॥
3
येनाऽऽत्मीयजिनावनाय बलिना नीतः पुरोच्चाचल- स्तीर्णः पूर्णपयोनिधिः खलहृता दृष्टा च सीताकृतिः। तत्ते किं कथनीयमस्ति जगति व्यक्तस्य सत्पालने स्वामिन्रामपदाब्जभृङ्ग तदव श्रीमन्हनूमन्नमः॥
4
सेवाभिः परितुष्टधीः कविजनैर्गयाभिराद्यः पुमान् ब्रह्माणं किल भाविनं समतनोत्सन्तं भवन्तं प्रभुः। साम्राज्ये सति विस्मृतिर्निजजने निन्द्या हि यत्वादशां स्वामिन्रामपदाब्जभृङ्ग तदव श्रीमन्हनूमन्नमः॥
5
कामी येन हि कीचको विनिहतः क्रोधी च दुःशासनः स्तब्धो लुब्धसुयोधनश्च मणिमान्मुग्धो मदान्धो बकः। कृष्णेर्ष्याभिरतश्च मागधपतिः षड्वैरिवर्गात्सदा स त्वं भीम गुणाभिराम दयया दासं हि मामुद्धर॥
6
दाहाद्येन विमोचितो निजजनस्य त्वं भवाग्नेरव स्वीयाध्वप्रतिबन्धकश्च निहतः किर्मीरनामा रणे। प्रोद्यन्मध्वमताध्वगस्य सदय प्रत्यर्थिनस्सादय स्वामिन्सोमकुलाग्रगण्य भवतः पोतं हि मां न त्यज॥
7
विद्वत्सिन्धम(गृ)होदय द्विजपथप्रज्ञप्तिबीजोदय प्रत्यर्थ्यम्बुजमुद्रण प्रियजनप्रत्यूहघर्मार्दन। हृल्लग्नामलकृष्णसस्मितदयावीक्षासुधाधिष्ण्य मां श्रीमन्मध्वमुनीन्द्रचन्द्रकुमुदस्थानीयमुद्बोधय॥
8
यद्वागाख्यकराः सतां सुखकराः दुर्वादिगर्वज्वराः सद्विद्याम्बुधिपोषको यदुदयोऽविद्याम्बुधेः शोषकः। यः शर्वेण शिरोधृतोऽपि विशदं चक्रे मुरारेः पदं सोऽव्याद्दद्भुतमध्वतारकपतिर्हार्दान्धकारच्युतिः॥
9
पद्यानामिदमष्टकं प्रविलसन्मध्वाकृतिस्पष्टकं तद्दासप्रियवादिराजयतिना तद्दत्तवाग्भूतिना। हृद्यं यः पठतीरितं सुचरितं सः स्याद्दिशामष्टके माद्यन्मायिमतङ्गभङ्गकरणे सिंहप्रबर्हप्रभः॥