Panchamashtakasthalarkakrita Stotram

Ashtakam

1

%१३० वन्दे देवं हेत्वात्मानं सच्चिद्रूपं सर्वात्मानम्। विश्वाधारं मुन्याकारं स्वेच्छाचारं वाघृद्दूरम्॥

2

विश्वओपाध्या यो ब्रह्मेशोऽविद्योपाध्यात्मानीशः। तत्त्वज्ञानान्मायानाशे तर्ह्रेकस्त्वं नेशोऽनीशः॥

3

रज्ज्वज्ञानात्सर्पस्तत्र भ्रान्त्या भातीशैवं ह्यत्र। जीवभ्रान्तिस्त्वेषा मिथ्या सा मेऽद्यारं नष्टाऽऽप्रोक्त्या॥

4

धन्योऽस्म्यद्य त्वद्दृक्पूतो जातोऽस्म्यद्य ब्रह्मीभूतः। त्वं ब्रह्मैवासीशारूपो मायायोगान्नानारूपः॥

5

दत्तात्रेयः प्रज्ञामेयो वेदैर्गेयो योगिध्येयः। त्वं विश्वात्मा कस्त्वामीशः स्तोतुं ध्यातुं ज्ञातुं वेशः॥

6

वृद्धः क्वापि प्रौढः क्वापि बालः क्वापि ब्रह्मः क्वापि। अङ्गी भोगी रागी क्वापि त्यागी योगी सङ्गी क्वापि॥

7

स त्वं वृद्धः सिद्धः शुद्धः श्रद्धाबद्धोप्यन्याविद्धः। श्रीशो मायाधीशो धीशो विज्ञानेशो निर्वाणेशः॥

8

धर्माधर्मातीतो गीतो वेदैर्भेदैर्हीनोनूनः। त्वां तं सन्तं भक्त्या मुक्त्या ईशं त्रीशं वन्दे वन्दे॥

9

इति श्रीवासुदेवानन्दसरस्वतीविरचितं पञ्चमाष्टकस्थालर्ककृतस्तोत्रं सम्पूर्णम् ।॥