Harashtakam
Ashtakam
1
जयत्यखिलखेचरप्रवरमौलिरत्नप्रभा- प्ररोहपरिपीवरीकृतनखांशुपादाम्बुजः। विशालनयनत्रयीरचितधामधामत्रयी- तिरस्कृतजगत्रयीपरिणतान्धकारो हरः॥
2
जयत्यमरदीर्घिकासलिलसेकसंवर्धित- प्रचण्डनयनानलग्लपिततीव्रतापव्यथः। अचिन्त्यचरितोज्ज्वलज्वलदनन्यसाधारण- प्रभावमहिमाहितत्रिभुवनापकारो हरः॥
3
जयत्यचलकन्यकाललितदोर्लतालिङ्गित- स्फुरद्गरलकालिमाकलितकान्तकणठस्थलः। तडिद्वलयलङ्घितोल्लसदमोघमेघभ्रम- प्रमत्तगुहबर्हिणोपहृतनृत्तहर्षो हरः॥
4
जयत्यविरलोच्छलद्गरलवह्निहेतिच्छटा- सटालफणभीषणक्षपणपाशमोक्षक्षमः। उदारकरुणारसप्रसरसारसिक्ताशयः प्रपन्नविपदर्णवोत्तरणकणधारो हरः॥
5
जयत्युदधिनिःसरद्गरनिगारलब्धाऽभय- प्रमोदभरनिभरत्रिदशदैत्यवृन्दस्तुतः। रसातलतलोद्गतज्वलदलङ्घ्यलिङ्गाल्लस- न्महामहिममोहितद्रुहिणवासुदेवो हरः॥
6
जयत्यतुलविक्रमोन्मिषदखर्वगर्वज्ज्वर- ज्वलच्चपलमन्मथोन्मथनभग्नभोगस्पृहः। दशास्यभुजमणडलीतरलितैकपिङ्गाचल- त्रसद्गिरिसुताहठग्रथितकणठपीठो हरः॥
7
जयत्यकलितोल्लसन्मदभरोद्धरान्धासुर- प्रतिष्करणसान्त्वनप्रथितनिग्रहाऽनुग्रहः। जगत्त्रयभयङ्करत्रिपुरघोरदावावली- सलीलकवलीकृतिप्रलयवारिवाहो हरः॥
8
जयत्यघवनाशनिः सुमतिमाधवीमाधवः कृपामृतपयोनिधिर्भवमहार्णवैकप्लवः। विपत्तृणसमीरणः प्रणयिचित्तचिन्तामणिः समस्तभुवनोदयप्रलयकेलिकारो हरः॥