Prarthana Ashtakam

Ashtakam

1

मया ज्ञातं सर्वं खलु जगदिदं ब्रह्म विमलं तथैवेह स्वात्मा निगमगुरुवाक्यादनुभवात्। तथापीच्छा स्वस्य त्वयि नयनपातस्य न गता प्रभो श्रीकृष्ण त्वं भव भव मदीयाक्षिविषयः॥

2

ममेमामाशाधिं हरसि यदि न त्वं च विपुला- महं भक्ताधीनो वदसि कथमित्थं प्रियमुधा। श्रुतं घार्ण्यं भक्ते तव मयि करोषीह न च किं (घार्ण्यं एवं कारुण्यं) प्रभो श्रीकृष्ण त्वं भव भव मदीयाक्षिविषयः॥

3

अमूल्यान्यस्वार्थे यदि तव रुचिर्नास्ति भगवन् सतां श्रीरन्यार्था क्व गतमिति वाक्यं च महताम्। यथा मेऽस्ति प्रीतिस्त्वयि मयि तव स्वात्मनि न किं प्रभो श्रीकृष्ण त्वं भव भव मदीयाक्षिविषयः॥

4

त्वदन्यं दुःखघ्नं शरणमुपयामोत्र वद कं तनूजोर्थोनारी निगमयतिवेषौ वनज्ञतिः। तवाप्राप्तौ सर्वे निरयमिव दुःखादसुखदाः प्रभो श्रीकृष्ण त्वं भव भव मदीयाक्षिविषयः॥

5

गजास्योयं देव्यास्तनुज उत तस्याः पतिहरः स लोकेशाज्जातस्तदपि हरेस्तत्प्रभृतयः। कलांशाः कृष्णस्तु स्वयमिति विभुर्भागवततः प्रभो श्रीकृष्ण त्वं भव भव मदीयाक्षिविषयः॥

6

मनश्वाञ्चल्यं मे करणकृतदोषं मनसिजं स्मयं रोषं लोभं न च मम गतिर्द्रक्ष्यसि यदा। स्ववात्सल्यं दृष्ट्वा कुरु गुरुदयां स्वात्मशरणे प्रभो श्रीकृष्ण त्वं भव भव मदीयाक्षिविषयः॥

7

सखा सख्युर्नार्याः पतिरिव तनूजस्य जननी क्षमस्व त्वं मेऽधं जलनिधिग काकस्य शरणम्। यथा पोतादन्यं मम भवदृते नास्ति जगति प्रभो श्रीकृष्ण त्वं भव भव मदीयाक्षिविषयः॥

8

अहोऽत्राहं धन्यश्चरणमणिशब्द श्रुतिगणं बहिःश्यामं त्वन्तः सितममरवाग्बुद्ध्यविषयम्। (शुद्धम्) यतो द्रक्ष्यामीशं रविशतसमापीडशिरसं प्रभो श्रीकृष्ण त्वं भव भव मदीयाक्षिविषयः॥