Shri Anubhava Ashtakam

Ashtakam

1

निरवग्रहबोधविग्रहं निजमाधुर्यधुराधुरन्धरम्। परितः प्रथतेतरामहो परमं नः परमार्थवैभवम्॥

2

अवधूततमिस्रविस्रवं विविधोपाधिपरङ्गपारगम्। (विविधोपाधित) अहह स्फुटमद्य भुञ्ज्महे निजसाम्राज्यमुखैक सम्प्लवम्॥

3

स्वरसस्फुरणस्कुटाधुतः सहजः सम्प्रसरन् समन्ततः। किमपि स्वदतेतरामहो महिमा वाङ्मनसातिलङ्घितः॥

4

सहजन्मसमग्रजन्मिनां प्रथमानप्रथमं महन्महः। मधुरं मधुरादयो मुहुर्मुहुरास्वाद्य चमत्कृता वयम्॥

5

न वचांसि न चित्तवृत्तयः पदमेतत् परिमातुमीशते। परमं किमपीदमद्भुतं पुनरप्य ----॥

6

चरणाभरणे फणिभ्रमादिव दूराय पलायिता वयम्। अधुना पुनराद्यविद्यया परमानन्दपदे कथं स्थिताः॥

7

--- णाकत्रणानिरीक्षणाक्षणनिर्वासितसर्वसंञ्ज्वराः। ------सर्वतः कलयामः कथयामहे कियत्॥

8

न परः प्रणयेन ---- ता वयम्। सपदि स्वपदेऽभिषेचितास्तदहो कृष्णकृपाविजृम्भितम्॥

9

अनुभवाष्टकमेतदनारतं परिपठन्ति जहन्ति रसान्तरम्। निजरसेन चिरं चरितार्थतामनुभवन्तु जगन्ति निरन्तरम्॥