Shri Vishnu Ashtakam

Ashtakam

1

श्रीगणेशाय नमः। विष्णुं विशालारुणपद्मनेत्रं विभान्तमीशांबुजयोनिपूजितम्। सनातनं सन्मतिशोधितं परं पुमांसमाद्यं सततं प्रपद्ये॥

2

कल्याणदं कामफलप्रदायकं कारुण्यरूपं कलिकल्मषघ्नम्। कलानिधिं कामतनूजमाद्यं नमामि लक्ष्मीशमहं महान्तम्॥

3

पीतांबरं भृङ्गनिभं पितामह- प्रमुख्यवन्द्यं जगदादिदेवम्। किरीटकेयूरमुखैः प्रशोभितं श्रीकेशवं सन्ततमानतोऽस्मि॥

4

भुजङ्गतल्पं भुवनैकनाथं पुनः पुनः स्वीकृतकायमाद्यम्। पुरन्दराद्यैरपि वन्दितं सदा मुकुन्दमत्यन्तमनोहरं भजे॥

5

क्षीरांबुराशेरभितः स्फुरन्तं शयानमाद्यन्तविहीनमव्ययम्। सत्सेवितं सारसनाभमुच्चैः विघोषितं केशिनिषूदनं भजे॥

6

भक्तार्त्तिहन्तारमहर्न्निशन्तं मुनीन्द्रपुष्पाञ्जलिपादपङ्कजम्। भवघ्नमाधारमहाश्रयं परं परापरं पङ्कजलोचनं भजे॥

7

नारायणं दानवकाननानलं नतप्रियं नामविहीनमव्ययम्। हर्त्तुं भुवो भारमनन्तविग्रहं स्वस्वीकृतक्ष्मावरमीडितोऽस्मि॥

8

नमोऽस्तु ते नाथ! वरप्रदायिन् नमोऽस्तु ते केशव! किङ्करोऽस्मि। नमोऽस्तु ते नारदपूजिताङ्घ्रे नमो नमस्त्वच्चरणं प्रपद्ये॥

9

फलश्रुतिः विष्ण्वष्टकमिदं पुण्यं यः पठेद्भक्तितो नरः। सर्वपापविनिर्मुक्तो, विष्णुलोकं स गच्छति॥