Vanara Ashtakam

Ashtakam

1

ईर्षी दक्षः क्रतौ रूपं स्तब्धःशुष्केन्धनं जवः। दुर्मन्त्रिणमिति श्लोकाः कथिता वानराष्टके। ईर्षी घृणीत्वसन्तुष्टः क्रोधनो नित्यशङ्कितः। परभाग्योपजीवी च षडेते दुःखभागिनः॥

2

दक्षः श्रियमधिगच्छति पथ्याशी कल्यतां सुखमरोगी। उद्यक्तो विद्यां तथा धर्मार्थयशांसि विनीतः॥

3

क्रतौ विवाहे व्यसने रिपुक्षये यशस्करे कर्मणि मित्रसङ्ग्रहे। प्रियासु नारीषु तथैव बान्धवे प्यतिव्ययो नास्ति नराधिपाष्टसु॥

4

रूपं जरा सर्वसुखानि तृष्णा खलेषु सेवा पुरुषाभिमानम्। याञ्चा गुरुत्वं गुणमात्मपूजा चिन्ता बलं हन्त्यदया च लक्ष्मीम्॥

5

स्तब्धस्य नश्यति यशो विषमस्य मैची नष्टक्रियस्य कुलमर्थपरस्य धर्मः। विद्याफल व्यसनिनः कृपयस्य पुस्तं राज्यं प्रमत्तसचिवस्य नराधिपस्य॥

6

शुष्केन्धने वह्निरुपैति वृद्धिं वालेषु शोक श्चपलेषु कोपः। कान्तासु कामो निपुणेषु चित्तं धर्मो दयावत्सु महत्स्सु धैर्यम्॥

7

जवोहि सप्तेः परमं विभूषणं चपाङ्गनायाः कृशता तपस्विनः। द्विजस्य विद्यैव मुनेरपिक्षमा पराक्रमः शस्त्रबलोपजीविनाम्॥

8

दुर्मस्त्रिणं कमुपयाति न नीतिदोषाः सन्तापयन्ति कमपथ्यभुजं न रोगाः। कं स्त्री न मोहयति कं न निहन्ति मृत्युः कं स्वीकृता न विषयाः परितापयन्ति॥