Shri Bhaskarashtakam
Ashtakam
1
श्रीपद्मिनीशमरुणोज्ज्वलकान्तिमन्तं मौनीन्द्रवृन्दसुरवन्दितपादपद्मम्। नीरेजसम्भवमुकुन्दशिवस्वरूपं श्रीभास्करं भुवनबान्धवमाश्रयामि॥
2
मार्ताण्डमीशमखिलात्मकमंशुमन्तं आनन्दरूपमणिमादिकसिद्धिदं च। आद्यन्तमध्यरहितं च शिवप्रदं त्वां श्रीभास्करं नतजनाश्रयमाश्रयामि॥
3
सप्ताश्वमभ्रमणिमाश्रितपारिजातं जाम्बूनदाभमतिनिर्मलदृष्टिदं च। दिव्याम्बराभरणभूषितचारुमूर्तिं श्रीभास्करं ग्रहगणाधिपमाश्रयामि॥
4
पापार्तिरोगभयदुःखहरं शरण्यं संसारगाढतमसागरतारकं च। हंसात्मकं निगमवेद्यमहस्करं त्वां श्रीभास्करं कमलबान्धवमाश्रयामि॥
5
प्रत्यक्षदैवमचलात्मकमच्युतं च भक्तप्रियं सकलसाक्षिणमप्रमेयम्। सर्वात्मकं सकललोकहरं प्रसन्नं श्रीभास्करं जगदधीश्वरमाश्रयामि॥
6
ज्योतिस्वरूपमघसञ्चयनाशकं च। तापत्रयान्तकमनन्तसुखप्रदं च। कालात्मकं ग्रहगणेन सुसेवितं च। श्रीभास्करं भुवनरक्षकमाश्रयामि॥
7
सृष्टिस्थितिप्रलयकारणमीश्वरं च दृष्टिप्रदं परमतुष्टिदमाश्रितानाम्। इष्टार्थदं सकलकष्टनिवारकं च श्रीभास्करं मृगपतीश्वरमाश्रयामि॥
8
आदित्यमार्तजनरक्षकमव्ययं च छायाधवं कनकरेतसमग्निगर्भम्। सूर्यं कृपालुमखिलाश्रयमादिदेवं लक्ष्मीनृसिंहकविपालकमाश्रयामि॥
9
फलश्रुतिः श्रीभास्कराष्टकमिदं परमं पवित्रं यत्र श्रुतं च पठितं सततं स्मृतं च। तत्र स्थिराणि कमलाप्तकृपाविलासै- र्दीर्घायुरर्थबलवीर्यसुतादिकानि॥