shrImukundarAyAShTakam
Ashtakam
1
(रामकली-गणेश गीयते) वनितोपहासनृत्यत्स्मितवदनानन्दजोषतोषदायिन्। श्रीमन्मुकुन्दराय त्वय्यासक्तं मनो मेऽस्तु॥
2
मणिमयनन्दावासे कुमारिकावृन्दशोभिसद्धास्ये। नवनीतलोभितास्ये (सततं त्वयि हरौ) मतिर्मेऽस्तु॥
3
परिधृतहीरकहारं व्रजाङ्गनादर्शनीयकौमारम्। कृतगोपुच्छविहारं जितमारं प्रणौमि हृत्सारम्॥
4
सकलोपनिषत्सारं स्वानन्दाप्राकृताकारम्। वन्दे नन्दकुमारं वारं वारं स्वदातारम्॥
5
किङ्कणीनूपुररणितं (सततं) सिंहावलोकनं कर्त्रे। व्रजजनमानसहर्त्रे निजार्तिहर्त्रे नमस्कुर्मः॥
6
अलकसमावृतवदनं सुकुन्दकलिकासुशोभितं स्वास्यम्। गोपयुवतीरतिसदनं जितमदनं नन्दनन्दनं नौमि॥
7
व्रजकर्दमलिप्ताङ्गं करधृतनवनीतमोहितानङ्गम्। वन्दे लोलविलोचनासक्ताङ्गनासङ्गम्॥
8
नर्तनलीलाकरणं मनोहरणं वपुषा नन्दविस्तरणम्। सेवकजनभवतरणं यामि तमहं सदैव शरणम्॥
9
तव लीलारसलुब्धाः श्रीमुकुन्दरायाष्टकं प्रेष्णा। साधनजालसहस्रं त्यक्त्वाजस्रं पठध्वं वै॥