Shri Shastrijimaharaja Pranama Ashtakam

Ashtakam

1

(शार्दूलविक्रीडितम्) वैराग्येण दृढेन बाल्यवयसि त्यक्त्वा गृहं बान्धवान् अन्विष्टाच्च सुतोषिताच्च गुरुतो विज्ञानमासाद्य च। सद्बोधेन विमोचयस्यनुगतान् देशे मुमुक्षूनटन् पूजार्हं प्रणमामि यज्ञपुरुषं शास्त्रप्रवीणं मुदा॥

2

शुश्रूषां कृतवान् गुरोरगणयन् प्राग्जेरुपाधीन् बहून् सेवाया अचलं व्रतं धृतवता भीतं न कस्मादपि। आज्ञां पालयतानुभूतमतुलं शारीरकष्टं गुरोः पूजार्हं प्रणमामि यज्ञपुरुषं शास्त्रप्रवीणं मुदा॥

3

शास्त्रं जीवणरङ्गतः श्रुतवता वेदादि ताभ्यां त्वया साकार-प्रकटेश्वराक्षरपते-रध्यापितोपासना। शास्त्रर्था विहिताः सभासु विजिता वादैः प्रतिस्पर्धिनः पूजार्हं प्रणमामि यज्ञपुरुषं शास्त्रप्रवीणं मुदा॥

4

कारुण्येन वसुन्धरां हरिवरो युक्तोऽक्षरेणाययौ आज्ञा श्रीहरिणा कृता प्रथयितुं भक्तिं हरेरीद्रशीम्। आज्ञां पालयता दुराग्रहवतां सोढास्त्वयोपद्रवाः पूजार्हं प्रणमामि यज्ञपुरुषं शास्त्रप्रवीणं मुदा॥

5

श्रीबोचासणधाम-रम्यासिक्ताः पूताः पदैः श्रीहरेः सङ्कल्पो विहितस्त्वयाक्षरपते-मूर्तिप्रतिष्ठापने। भक्तेभ्येऽक्षरमन्दिरं रचयता प्रौढं महो दर्शितं पूजार्हं प्रणमामि यज्ञपुरुषं शास्त्रप्रवीणं मुदा॥

6

श्रद्धायुक्त-मुमुक्षुरेत्य शरण कुर्याद् भवत्सेवनां सन्तापांस्त्रिविधान्निवार्य सकलान् भूयाद् भवान् शान्तिदः। देहो भक्तहितार्थमेव भवता ब्रह्मार्पितो धार्यते पूजार्हं प्रणमामि यज्ञपुरुषं शास्त्रप्रवीणं मुदा॥

7

धर्मज्ञान-विरागभक्तय इमे एकान्तिकानां गुणाः चत्वारश्च भवन्ति पञ्चममिदं शुश्रूषणं श्रीहरेः। श्रेयस्कारिगुणाः हरेर्मुनिवरं त्वां भूषयन्तेऽखिलाः पूजार्हं प्रणमामि यज्ञपुरुषं शास्त्रप्रवीणं मुदा॥

8

नामोच्चारमहित्वमेव मलिनं सङ्कल्पमाखण्डते किञ्चान्तःशरणं प्रशामयति यत् संसारचक्रानलान्। यत्पादाम्बुजलोलुपा हरिजना गायन्ति शुभ्रं यश- स्तस्मिन् यज्ञपुरुषदास-चरणे प्रीत्या नमस्यास्तु मे॥

9

इति श्रीजेठालालस्वामिनारायणविरचितं श्रीशास्त्रिजीमहाराज प्रणामाष्टकं सम्पूर्णम् ।॥