Shri Kaluramacharya Ashtakam
Ashtakam
1
मुद्रामालोर्ध्वपुण्ड्रादेरद्भुतैश्वर्यदर्शकम्। कालूरामाभिधं वन्दे द्वाराचार्यं जगद्गुरुम्॥
2
रामनन्दीयसिद्धान्तरक्षकं सिद्धिशालिनम्। कालूरामाभिधं वन्दे द्वाराचार्यं जगद्गुरुम्॥
3
सत्यहिंसादिधर्माणां वक्तारं चाथ पालकम्। कालूरामाभिधं वन्दे द्वाराचार्यं जगद्गुरुम्॥
4
नवधाभक्तिबोद्धारं रामध्यानविधायकम्। कालूरामाभिधं वन्दे द्वाराचार्यं जगद्गुरुम्॥
5
दयादानोपकारैश्च लोककल्याणकारकम्। कालूरामाभिधं वन्दे द्वाराचार्यं जगद्गुरुम्॥
6
सर्वाराध्यस्य रामस्य पूजकं लोकपूजितम्। कालूरामाभिधं वन्दे द्वाराचार्यं जगद्गुरुम्॥
7
आपादक च पञ्चानां संस्काराणां मुनीश्वरम्। कालूरामाभिधं वन्दे द्वाराचार्यं जगद्गुरुम्॥
8
तारकादित्रयाणां च मन्त्राणामर्थं बोधकम्। कालूरामाभिधं वन्दे द्वाराचार्यं जगद्गुरुम्॥