Ranganatha Ashtakam

Ashtakam

1

आनन्दरूपे निजबोधरूपे ब्रह्मस्वरूपे श्रुतिमूर्तिरूपे। शशाङ्करूपे रमणीयरूपे श्रीरङ्गरूपे रमतां मनो मे॥

2

कावेरितीरे करुणाविलोले मन्दारमूले धृतचारुचेले। दैत्यान्तकालेऽखिललोकलीले श्रीरङ्गलीले रमतां मनो मे॥

3

लक्ष्मीनिवासे जगतां निवासे हृत्पद्मवासे रविबिम्बवासे। कृपानिवासे गुणवृन्दवासे श्रीरङ्गवासे रमतां मनो मे॥

4

ब्रह्मादिवन्द्ये जगदेकवन्द्ये मुकुन्दवन्द्ये सुरनाथवन्द्ये। व्यासादिवन्द्ये सनकादिवन्द्ये श्रीरङ्गवन्द्ये रमतां मनो मे॥

5

ब्रह्माधिराजे गरुडाधिराजे वैकुण्ठराजे सुरराजराजे। त्रैलोक्यराजेऽखिललोकराजे श्रीरङ्गराजे रमतां मनो मे॥

6

अमोघमुद्रे परिपूर्णनिद्रे श्रीयोगनिद्रे ससमुद्रनिद्रे। श्रितैकभद्रे जगदेकनिद्रे श्रीरङ्गभद्रे रमतां मनो मे॥

7

स चित्रशायी भुजगेन्द्रशायी नन्दाङ्कशायी कमलाङ्कशायी। क्षीराब्धिशायी वटपत्रशायी श्रीरङ्गशायी रमतां मनो मे॥

8

इदं हि रङ्गं त्यजतामिहाङ्गम् पुनर्नचाङ्कं यदि चाङ्गमेति। पाणौ रथाङ्गं चरणेम्बु गाङ्गम् याने विहङ्गं शयने भुजङ्गम्॥

9

रङ्गनाथाष्टकं पुण्यम् प्रातरुत्थाय यः पठेत्। सर्वान् कामानवाप्नोति रङ्गिसायुज्यमाप्नुयात्॥

10

इति श्रीमच्छङ्कराचार्यविरचितं श्रीरङ्गनाथाष्टकं सम्पूर्णम्॥