Shri Santadasa Ashtakam
Ashtakam
1
(श्री लक्ष्मीमिश्रविरचितं) शरदिन्दु-कुन्द-तुषार-हार-पवीर-पारदसुन्दरं जप-मालिका-मणि-पद्मपाणिमशेषलोकहितैषिणम्। कुलमौलिमादिगुरुं जटामुकुटादिभूषणभूषितं प्रणमामि सम्प्रति ``सन्तदास''मिहैव दर्शितविष्णुकम्॥
2
शुमनिम्बभानुपथानुगं हरिभक्तिपरायणं शिवं बहुलानुरागनिवासरासविलासदर्शनरागिणम्। रमणीय वेणुनिनाद-वादविवाद-संश्रवणे रुचिम्, प्रणमामि सम्प्रति ``सन्तदास''मिहैव दर्शितविष्णुकम्॥
3
शिवब्रह्मविष्णुप्रपूजकं निजभक्तिरक्षितसाधकं नवसिद्धयोगीमुनीन्द्रवन्दितनिम्ब भानुकुलोद्भवम्। करुणालयं हि उदारता करशान्तदान्त-सुमन्दिरं प्रणमामि सम्प्रति ``सन्तदास''मिहैव दर्शित विष्णुवम्॥
4
सकलां विहाय स्वसम्पदं मुरारिपादसमाश्रितं जगतां स्वकीयविशुद्धमार्गप्रदर्शकं हरिसेवकम्। कलिकल्मषघ्नमशेषसद्गुणसागरं नरनागरं प्रणमामि सम्प्रति-``सन्तदास''मिहैव दर्शित विष्णुकम्॥
5
सनकादिकैर्मुनिभिः प्रदर्शितपद्धतौ पथिकं स्थिरं जगतीतलैक-सुवाटिका हृदिकञ्जकुड्मलषटपदम्। वृषभानुजाप्रियपद्मरेणुसितं हितं सुललाटकं प्रणमामि सम्प्रति ``सन्तदास''मिहैव दर्शितविष्णुकम्॥
6
यमुनातरङ्गसमाकुले पुलिने विहारपरायणं निजधर्मकर्मपथे स्थितं प्रथितं विचारप्रवाहने। सततं सुसेवितसज्जनं जनतां सुधीर-प्रचारकं प्रणमामि सम्प्रति ``सन्तदास''मिहैव दर्शित विष्णुकम्॥
7
गुरुपादपद्मरजःकणैर्विमलीकृतं सुललाटकं मुनिमण्डलीनदराजहंसमसङ्ख्यशिष्यसुसेवितम्। हरिनामपावनसागरं ब्रजधूलिभूषणभूषितं प्रणमामि सम्प्रति ``सन्तदास''मिहैव दर्शित विष्णुकम्॥
8
निजसम्प्रदायसमुन्नतौ यतमानमामरणं परं जगतीतलैकसुधाकरं निजभक्तजनैक सुरक्षकम्। कलिकल्मषोत्कटतापनं भवसागरात् परित्राणदं प्रणमामि सम्प्रति ``सन्तदास''मिहैव दर्शितविष्णुकम्॥
9
भक्तिमान् यः पठेन्नित्यं सन्तदासाष्टकं शुभम्। ऐहिकं हि सुखं भुक्त्वाचान्ते मोक्षमवाप्नुयात्॥
10
भक्तिदं वैष्णवाणां च मुमुक्षूणां च मोक्षदम्। सन्तदासाष्टकं श्रुत्वा नरः सद्गतिमाप्नुयात्॥