shrIbhavamangalAShTakam

Ashtakam

1

श्रीरङ्गं करिशैलमञ्जनगिरीं शेषाद्रिसिंहाचलं श्रीकूर्मं पुरुषोत्तमं च बदरीनारायणं नैमिषम्। श्रीमद्वारवतीप्रयागमथुरायोध्यागयापुष्करं शालग्रामगिरिं निषेव्य रमते रामानुजोऽयं मुनिः॥

2

सर्वेषां कृतिनां चरन्ति गुरवः कैङ्कर्यनिष्ठा हरेः श्रीरामानुजयोगिनायकमणिः श्रीपादपद्मालयाः। भोग्याष्टाक्षरमन्त्ररत्नचरमश्लोकानुसन्धायिनो वन्द्या भागवतोत्तमाः प्रतिदिनङ्कुर्वन्तु नो मङ्गलम्॥

3

स श्रीमान्परमःपुमानथ चतुर्व्यूहावतारस्ततो जाता व्यूहपरम्पराः सुरचिताः श्रीकेशवाद्याः पराः। एकाम्भोनिधिशेषभोगशयनन्यग्रोधपत्राश्रय- क्षीरोदन्वदनन्ततल्पसुखदाः कुर्वन्तु नो मङ्गलम्॥

4

श्रीरामानुजयोगिपूर्णयमुनावास्तव्यमालाधराः नाथः कारितनूजसैन्यपरमाः श्रीमांश्च नारायणः। चण्डाद्याः कुमुदादयः परिजना नित्याश्च मुक्ताश्च ये श्रीवैकुण्ठनिवासिनोऽमरवराः कुर्वन्तु नो मङ्गलम्॥

5

मत्स्यः-कूर्म-वराह-मानवहरिः श्रीवामनो-भार्गवः श्रीरामो-बलदेवदेवकिसुतौ-कल्की दशैते क्रमात्। अन्तर्याम्यथ योगिनां हृदयगोप्यर्च्चावताराः शुभाः श्रीरङ्गादिसमस्तधामनिलयाः कुर्वन्तु नो मङ्गलम्॥

6

श्रीभूमिर्विमलादयो नवसुधापद्माधृताः शक्तयो वेदा वेदवती धरापि च महालक्ष्मी सुकेशालया। देवी भार्गवभामिनी जनकजा सा रेवती रुक्मिणी वेदाद्याःप्रभयान्विता दश रमाः कुर्वन्तु नो मङ्गलम्॥

7

शत्रुध्वंसि सुदर्शनं सुखकरं श्रीपाञ्चजन्यस्सदा बाणाः शार्ङ्गममहर्षजनकं कौमौदकी नन्दकः। सत्पद्मं मुसलं हलं च परशुर्दिव्यायुधानि प्रभोः सेनाधीशखगेशभोगिपतयः कुर्वन्तु नो मङ्गलम्॥

8

हंसो धर्मनिदर्शनो हरिमुखो यज्ञश्च धन्वन्तरिः पाथोऽजोमिथुनोदितोहरिरलङ्कारः पृथिव्याः पृथुः। आद्यो वेदमुखश्च जन्मनिलयो नारायणो वै विराट् श्वेतद्वीपनिवासिजीवहृदयः कुर्वन्तु नो मङ्गलम्॥

9

विष्वक्सेनमुनिर्ह्यनन्तमुनयः श्रीसम्प्रदायादिमा येऽन्ये भूतभविष्यदृश्यसमये श्रीरङ्गभूभूषणाः। ये वै भागवताः सुखा दशगणा भृत्या नरा वानराः श्वेतद्वीपनिवासिनो नरवराःकुर्वन्तु नो मङ्गलम्॥

10

इत्युक्तं भवमङ्गलाष्टकमिदं सुश्लोकसङ्कीर्तनं श्रीमद्भागवतप्रसादजनकं श्रीवेङ्कटेशेन यत्। भक्ता ये प्रपठन्ति शुद्धमनसः प्रोत्फुल्लहृत्पङ्कजा- स्तेषांवाञ्छितमङ्गलम्प्रकुरुते भक्तिप्रियो माधवः॥

11

इति श्रीभवमङ्गलाष्टकं सम्पूर्णम्॥