Hayavadana Ashtakam

Ashtakam

1

दासस्य मे शिरसि हस्तसहस्रपत्रं श्रीशार्पयेश वरदेश्वर वाजिवक्त्र। व्यासादिमूर्तिशतशोभित मे प्रसीद पाशं विखण्डय भवाभिधमम्बजाक्ष॥

2

दासस्य मे शिरसि पादलसत्सरोजं श्रीशार्पयाऽऽशु निजभूषणभूषणं ते। आशां विनाशय भवत्स्मरणप्रतीपान् दोषांश्च दूरय भवाव्यय मेऽन्तरङ्गे॥

3

संसारदावशिखया परितप्यमानः संसेवकस्तव तुरङ्गमतुङ्गवक्त्र। संशद्धमध्वहृदयाब्जगराजहंस कं साधयामि शरणं वरदं विना त्वाम्॥

4

पञ्चात्मकश्रुतिनिगूहकदानवेन्द्र- पञ्चत्वदायक रमाञ्चितपादपद्म। सिञ्च त्वदङ्गपरिपावितपापभेद- चुञ्च्वङ्घ्रिपद्मपरिलम्बिसुधाप्रवाहैः॥

5

नाहं वृणोमि तव पाददिनेशसेवां मोहान्धकारनिकरक्षयदां विनाऽन्यत्। व्यूहं सतां समवलम्ब्य भवच्चरित्र- व्याहारतृप्तकरणं कुरु कि बहुक्त्या॥

6

किं बन्धनैः कथय बन्धुजनैर्मुरारे किं भारभूतकटकादिविभूषणैर्वा। अम्भस्सु मग्नकरणस्य भवाम्बुराशेः किं भङ्गशीलधनभूभवनाद्युपायैः॥

7

उत्फुल्लपद्मदलनेत्र तुरङ्गवक्त्र रत्नौघचित्रतिलकारुणमञ्जुलोष्ठ। विस्तीर्णवक्षसि विराजितभूरिहार वृत्तातिदीर्घकरकञ्च कृताखिलार्थ॥

8

लक्ष्मीनिवास तनुकोमलमञ्जुमध्य लक्ष्यत्रिवल्युदरनाभिसरस्सरोज। रत्नाग्यमेखल रणच्चरणाब्जभूष भृत्यं विलोकय दयाद्रदृशाऽन्वहं माम्॥

9

इत्यष्टकेन हयकन्धरमिन्दिरेशं रक्तात्मपादतलरञ्जितदिक्प्रदेशम्। तत्पादपद्मकृतमानसवादिराज- प्रोक्तेन योऽर्चयति तस्य भवेत्प्रियोऽसौ॥