Shri Dharmashastuh Ashtakam

Ashtakam

1

बन्धूकबन्धुररुचिं कलधौतभासं पञ्चाननं दुरितवञ्चनधीरमीशम्। पार्श्वद्वयाकलितशक्तिकटाक्षचारुं नील्त्पलार्चिततनुं प्रणत्ऽस्मि देवम्॥

2

कल्याणवेषरुचिरं करुणानिधानं कन्दर्पकोटिसदृशं कमनीयभासम्। कान्ताद्वयाकलितपार्श्वमघारिमाद्यं शास्तारमेव सततं प्रणतोऽस्मि नित्यम्॥

3

यो वा स्मरेदरुणकुङ्कुमपङ्कशोण- गुञ्जापिनद्धकचभारलसत्किरीटम्। शास्तारमेव सततं स तु सर्वलोकान् विस्मापय्न्निजविलोकनत् नितान्तम्॥

4

पञ्चेषुकैटभविरोधितनूभवं तं आरूढदन्तिपरमादृतमन्दहासम्। हस्ताम्बुजैरविरतं निजभक्तहंसे ष्वृद्धिं परां हि ददतं भुवनैकवन्द्यम्॥

5

गुञ्जामणिस्रगुपलक्षितकेशहस्तं कस्तूरिकातिलकमोहनसर्वलोकम्। पञ्चाननाम्बुजलसत् घनकर्णपाशं शास्तारमम्बुरुहलोचनमीशमीडे॥

6

पञ्चाननं दशभुजं धृतहेतिदण्डं धारावतादपि च रूष्णिकमालिकाभिः। इच्छानुरूपफलदोऽस्म्यहमेव भक्ते- ष्वित्थं प्रतीतविभवं भगवन्तमीडे॥

7

स्मेराननाद् भगवतः स्मरशासनाच्च मायागृहीतमहिलावपुषो हरेश्च। यः सङ्गमे समुदभूत् जगतीह तादृग् देवं नतोऽस्मि करुणालयमाश्र येऽहम्॥

8

यस्यैव भक्तजनमत्र गृणन्ति लोके किं वा मयः किमथवा सुरवर्धकिर्वा। वेधाः किमेष ननु शम्बर एष वा किं इत्येव तं शरणमाशुतरं व्रजामि॥

9

इति श्रीधर्मशास्तुः अष्टकं सम्पूर्णम्। धर्मशास्ताष्टकं॥