Shri Venkatesha Mangalashtakam

Ashtakam

1

श्रीक्षोण्यौ रमणीयुगं सुरमणीपुत्रोऽपि वाणीपतिः पौत्रश्चन्द्रशिरोमणिः फणिपतिः शय्या सुराः सेवकाः। तार्क्ष्यो यस्य रथो महश्च भवनं ब्रह्माण्डमाद्यः पुमान् श्रीमद्वेङ्कटभूधरेन्द्ररमणः कुर्याद्धरिर्मङ्गलम्॥

2

यत्तेजो रविकोटिकोटिकिरणान् धिक्कृत्य जेजीयते यस्य श्रीवदनाम्बुजस्य सुषमा राकेन्दुकोटीरपि। सौन्दर्यं च मनोभवानपि बहून् कान्तिश्च कादम्बिनीं श्रीमद्वेङ्कटभूधरेन्द्ररमणः कुर्याद्धरिर्मङ्गलम्॥

3

नानारत्न किरीटकुण्डलमुखैर्भूषागणैर्भूषितः श्रीमत्कौस्तुभरत्न भव्यहृदयः श्रीवत्ससल्लाञ्छनः। विद्युद्वर्णसुवर्णवस्त्ररुचिरो यः शङ्खचक्रादिभिः श्रीमद्वेङ्कटभूधरेन्द्ररमणः कुर्याद्धरिर्मङ्गलम्॥

4

यत्फाले मृगनाभिचारुतिलको नेत्रेऽब्जपत्रायते कस्तूरीघनसारकेसरमिलच्छ्रीगन्धसारो द्रवैः। गन्धैर्लिप्ततनुः सुगन्धसुमनोमालाधरो यः प्रभुः श्रीमद्वेङ्कटभूधरेन्द्ररमणः कुर्याद्धरिर्मङ्गलम्॥

5

एतद्दिव्यपदं ममास्ति भुवि तत्सम्पश्यतेत्यादरा- द्भक्तेभ्यः स्वकरेण दर्शयति यद्दृष्ट्याऽतिसौख्यं गतः। एतद्भक्तिमतो महानपि भवाम्भोधिर्नदीति स्पृशन् श्रीमद्वेङ्कटभूधरेन्द्ररमणः कुर्याद्धरिर्मङ्गलम्॥

6

यः स्वामी सरसस्तटे विहरतो श्रीस्वामिन्नाम्नः सदा सौवर्णालयमन्दिरो विधिमुखैर्बर्हिर्मुखैः सेवितः। यः शत्रून् हनयन् निजानवति च श्रीभूवराहात्मकः श्रीमद्वेङ्कटभूधरेन्द्ररमणः कुर्याद्धरिर्मङ्गलम्॥

7

यो ब्रह्मादिसुरान् मुनींश्च मनुजान् ब्रह्मोत्सवायागतान् दृष्ट्वा हृष्टमना बभूव बहुशस्तैरर्चितः संस्तुतः। तेभ्यो यः प्रददाद्वरान् बहुविधान् लक्ष्मीनिवासो विभुः श्रीमद्वेङ्कटभूधरेन्द्ररमणः कुर्याद्धरिर्मङ्गलम्॥

8

यो देवो भुवि वर्तते कलियुगे वैकुण्ठलोकस्थितो भक्तानां परिपालनाय सततं कारुण्यवारां निधिः। श्रीशेषाख्यमहीध्रमस्तकमणिर्भक्तैकचिन्तामणि श्रीमद्वेङ्कटभूधरेन्द्ररमणः कुर्याद्धरिर्मङ्गलम्॥

9

शेषाद्रिप्रभुमङ्गलाष्टकमिदं तुष्टेन यस्येशितुः प्रीत्यर्थं रचितं रमेशचरणद्वन्द्वैकनिष्टावता। वैवाह्यादिशुभक्रियासु पठितं यैः साधु तेषामपि श्रीमद्वेङ्कटभूधरेन्द्ररमणः कुर्याद्धरिर्मङ्गलम्॥

10

इति श्री वेङ्कटेश मङ्गलाष्टकं सम्पूर्णम्॥