shrIgomatyambAShTakam
Ashtakam
1
ॐ श्रीगणेशाय नमः॥
2
भूकैलासे मनोज्ञे भुवनवनवृते नागतीर्थोपकण्ठे रत्नप्रकारमध्ये रविचन्द्रमहायोगपीठे निषण्णम्। संसारव्याधिवैद्यं सकलजननुतं शङ्खपद्मार्चिताङ्घ्रिं गोमत्यम्बासमेतं हरिहरवपुषं शङ्करेशं नमामि॥
3
लक्ष्मीवाणीनिषेविताम्बुजपदां लावण्यशोभां शिवां लक्ष्मीवल्लभपद्मसम्भवनुतां लम्बोदरोल्लासिनीम्। नित्यं कौशिकवन्द्यमानचरणां ह्रीङ्कारमन्त्रोज्ज्वलां श्रीपुन्नागवनेश्वरस्य महिषीं ध्यायेत्सदा गोमतीम्॥
4
देवीं दानवराजदर्पहरिणीं देवेन्द्रसम्पत्प्रदां गन्धर्वोरगयक्षसेवितपदां श्रीशैलमध्यस्थिताम्। जातीचम्पकमल्लिकादिकुसुमैः संशोभिताङ्घ्रिद्वयां श्रीपुन्नागवनेश्वरस्य महिषीं ध्यायेत्सदा गोमतीम्॥
5
उद्यत्कोटिविकर्तनद्युतिनिभां मौर्वीं भवाम्भोनिधेः उद्यत्तारकनाथतुल्यवदनामुद्योतयन्तीं जगत्। हस्तन्यस्तशुकप्रणाळसहितां हर्षप्रदामम्बिकां श्रीपुन्नागवनेश्वरस्य महिषीं ध्यायेत्सदा गोमतीम्॥
6
कल्याणीं कमनीयमूर्तिसहितां कर्पूरदीपोज्ज्वलां कर्णान्तायतलोचनां कळरवां कामेश्वरीं शङ्करीम्। कस्तूरितिलकोज्ज्वलां सकरुणां कैवल्यसौख्यप्रदां श्रीपुन्नागवनेश्वरस्य महिषीं ध्यायेत्सदा गोमतीम्॥
7
वैडूर्यादिसमस्तरत्नखचिते कल्याणसिंहासने स्थित्वाऽशेषजनस्य पालनकरीं श्रीराजराजेश्वरीम्। भक्ताभीष्टफलप्रदां भयहरां भण्डस्य युद्धोत्सुकां श्रीपुन्नागवनेश्वरस्य महिषीं ध्यायेत्सदा गोमतीम्॥
8
शैलाधीशसुतां सरोजनयनां सर्वाघविध्वंसिनीं सन्मार्गस्थितलोकरक्षणपरां सर्वेश्वरीं शाम्भवीम्। नित्यं नारदतुम्बुरुप्रभृतिभिर्वीणाविनोदस्थितां श्रीपुन्नागवनेश्वरस्य महिषीं ध्यायेत्सदा गोमतीम्॥
9
पापारण्यदवानलां प्रभजतां भाग्यप्रदां भक्तिदां भक्तापत्कुलशैलभेदनपविं प्रत्यक्षमूर्तिं पराम्। मार्कण्डेयपराशरादिमुनिभिः संस्तूयमानामुमां श्रीपुन्नागवनेश्वरस्य महिषीं ध्यायेत्सदा गोमतीम्॥
10
चेतारण्यनिवासिनीं प्रतिदिनं स्तोत्रेण पूर्णाननां (श्वेतारण्यनिवासिनीं) त्वत्पादाम्बुजसक्तपूर्णमनसां स्तोकेतरेष्टप्रदाम्। नानावाद्यवैभवशोभितपदां नारायणस्यानुजां meter? श्रीपुन्नागवनेश्वरस्य महिषीं ध्यायेत्सदा गोमतीम्॥
11
इति श्रीगोमत्यम्बाष्टकं सम्पूर्णम्। इति शिवम्॥