Mangala Ashtakam

Ashtakam

1

मञ्जुश्रीर्लोकनाथो जिनवरमकुटो जम्भलो वज्रसत्त्वः मैत्रेयो वज्रपाणिः सुखकरकमलो राहुलो भद्रपालः। बुद्धो वैरोचनाद्यस्त्रिभुवननमितः क्षीणनिःशेषदोष- स्तुष्टाः सर्वार्थसिद्धिं ददतु समरसा मङ्गलं बोधिसत्त्वाः॥

2

हृष्टो हूङ्कारवज्रः पशुपतिदमको वज्रघण्टा च हृष्टा पीतो हालाहलास्यो रिपुगणमथनो टक्किराजो महात्मा। अक्षोभ्यो रत्नकेतुः प्रतिदिनमचलो गण्डहस्तिर्यमारि- स्तुष्टाः सर्वार्थसिद्धिं ददतु समरसा मङ्गलं बोधिसत्त्वाः॥

3

सङ्घस्त्रैलोक्यबन्धुर्गुणगणनिलयो बोधिचित्तः सुचित्तः बोधिश्चानन्दसिद्धो विजितकलिमलो हेरुको नीलदण्डः। बुद्धः सारङ्गराजो विजितजिनगुणो सर्वसत्त्वानुकम्पी तुष्टाः सर्वार्थसिद्धिं ददतु समरसा मङ्गलं बोधिसत्त्वाः॥

4

प्रज्ञा चन्द्रावतारा तदनुजभृकुटी ज्ञानसम्भारभारा मारीची मारमारा सकलभयहरा पीतवर्णा त्रिवक्त्रा। मायूरी मामकी च क्षपितरिपुगणा पाण्डरा रोचनाद्या- स्तुष्टाः सर्वार्थसिद्धिं ददतु समरसा मङ्गलं बोधिसत्त्वाः॥

5

गान्धारी जाङ्गुली च भुजगहृतफणा खड्गपाशाङ्कुशोग्रा वाराही वज्रहस्ता असिपरशुधरा धर्मधात्वीश्वरी च। केयूरी ज्ञानसारा ध्वजनिहितकरा षट्करा शाबरी च तुष्टाः सर्वार्थसिद्धिं ददतु समरसा मङ्गलं बोधिसत्त्वाः॥

6

वैण्या माल्या सुगीता प्रथितजिनवरे शाबरी धूपवज्रा वैताली गन्धवज्रा प्रहसितवदना स्वर्गतिरार्यतारा। लक्ष्मीर्बुद्धस्य बोधिः सकलभयहरा शारदा दीपवज्रा तुष्टाः सर्वार्थसिद्धिं ददतु समरसा मङ्गलं बोधिसत्त्वाः॥

7

वैशाल्यां धर्मचक्रे प्रथितनिजबले पर्वते गृध्रकूटे श्रावस्त्यां लुम्बिनीके क्षितिनिहितकरा कोङ्कणे बोधिवृक्षा। श्रीवत्साश्वत्थपत्रं सुरवरनमितं श्रीफलं शङ्खचक्रं तुष्टाः सर्वार्थसिद्धिं ददतु समरसा मङ्गलं बोधिसत्त्वाः॥

8

छत्रं दूर्वा च पद्मं ध्वजमपि निहितं लो(रो)चना मत्स्यकूर्मौ वाराहः पूर्णकुम्भो मुनिवरवचनं वज्रघण्टानिनादः। बुद्धानां प्रातिहार्यं सुरवरनमितं हास्यलास्ये विलासा- स्तुष्टाः सर्वार्थसिद्धिं ददतु समरसा मङ्गलं बोधिसत्त्वाः॥

9

इति मङ्गलाष्टकं सम्पूर्णम्॥