Matribhuteshvara Ashtakam

Ashtakam

1

माता त्वं च पितासि सर्वजगतां माता पिता वा न ते तस्मात्त्वं भुवि विश्रुतोऽसि भगवंस्त्वं मातृभूतेश्वरः। तेन त्वं महिलार्धविग्रह इति ख्यातश्च नाम्नैव ते तत्वार्थाकलनाय केवलमसौ जागर्ति योगेश्वरी॥

2

सिद्धक्षेत्रमिदं जगत्सुविदितं देवोऽरुणाद्रीश्वरः सिद्धश्रीरमणीयहस्तविभवाच्छ्रीमातृभूतेश्वरः। सिद्धोऽसौ भुवि सिद्धिदस्सह महायोगेश्वरीजायया पर्याप्तन्त्विदमेतदीयमहिमप्रख्यापने भूजुषाम्॥

3

भीमैर्भोगिवरैर्विभूषिततनुर्यद्यप्यभीतिप्रदः पूतः प्रेतनिकेतगोऽपि फलदो भिक्षाकएवस्वयम्। साकं श्रीरमणेश्वरेण भजतां ध्यानास्पदं योगिनां सोऽयं चित्रचरित्रको विजयते श्रीमातृभूतेश्वरः॥

4

भीतो भीमभुजङ्गमैर्न च तथा प्रीतो हिमांशोः करा- त्पूतो जह्नुसुताजलान्नच न चापूतोऽस्थिसम्भूषणात्। नो दुःखी चितिभस्मनः पितृवनावासाच्च योगाम्बिका- सङ्गान्नापि सुखी समो विषमदृक् श्रीमातृभूतोऽवतु॥

5

दिग्रूपं वसनं विहाय रुचिरं क्षौमं वसानश्शुभं हित्वा वासरुचिं श्मशानगहने पुण्याश्रमैकाश्रयः। चित्यं भस्म विहाय चन्दनरसैर्माल्यैः कृतालङ्क्रियः योगाम्बागृहमेधिको विजयते श्रीमातृभूतेश्वरः॥

6

यच्छक्त्या रमणाश्रमस्थलमिदं भूवासिनां नन्दनं जातं स्वस्य विचित्रशिल्पिरचनावैचित्र्यचैत्यं महत्। शोणाद्रीश्वरसानुगस्स जगतामीशो निरीशस्स्वयं सर्वैश्वर्यनिधिर्धुनोतु दुरितं श्रीमातृभूतेश्वरः॥

7

गङ्गाचन्द्रकलाधरोऽसि शिरसि श्रीमातृभूतेश ! ते वामार्धे करुणारसार्द्रहृदया योगेश्वरी राजते। शीताङ्गाश्च भुजङ्गमाः करपदोः किञ्चाभिषेकोऽनिशं सह्यं शत्यमिदं कथं यदि वसेश्चित्ते न तप्ते मम॥

8

माताऽभूद्रमणस्य या भगवतस्सौन्दर्यनाम्नी सती पश्चात् सैव समस्तलोकजननीत्वेनापि सम्पूजिता। अद्यत्वे तु विहाय सा परिणता स्त्रीत्वं पुमाकारतो लिङ्गातिक्रमरूपतश्च लसति श्रीमातृभूतेश्वरः॥

9

भगवद्रमणाचार्य मातृभूतेश्वरस्तुतिः। अर्पिता तत्पदद्वन्द्वे जगदीश्वरशास्त्रिणा॥

10

इति मातृभूतेश्वराष्टकं सम्पूर्णम्॥