paramAtmAShTakam
Ashtakam
1
श्रीगणेशाय नमः॥
2
परमात्मँस्तव प्राप्तौ कुशलोऽस्मि न संशयः। तथापि मे मनो दुष्टं भोगेषु रमते सदा॥
3
यदा यदा तु वैराग्यं भोगेभ्यश्च करोम्यहम्। तदैव मे मनो मूढं पुनर्भोगेषु गच्छति॥
4
भोगान्भुक्त्वा मुदं याति मनो मे चञ्चलं प्रभो। तव स्मृतिर्यदाऽऽयाति तदा भाति बहिर्मुखम्॥
5
प्रत्यहं शास्त्रनिचयं चिन्तयामि समाहितः। तथापि मे मनो मूढं त्यक्त्वा त्वां भोगमिच्छति॥
6
शोकमोहौ मानमदौ तवाज्ञ्नाद्भवन्ति वै। यदा बुद्धिपथं यासि यान्ति ते विलयं तदा॥
7
कृपां कुरु तथा नाथ त्वयि चित्तं स्थिरं यथा। मम स्याज्ज्ञानसंयुक्तं तव ध्यानपरायणम्॥
8
मायया ते विमूढोऽस्मि न पश्यामि हिताहितम्। संसारपारपाथोधौ पतितं मां समुद्धर॥
9
परमात्मँस्त्वयि सदा मम स्यान्निश्चला मतिः। संसारदुःखगहनात्त्वं सदा रक्षको मम॥
10
परमात्मन इदं स्तोत्रं मोहविच्छेदकारकम्। ज्ञानदं च भवेन्नॄणां योगानन्देन निर्मितम्॥
11
इति श्रीयोगानन्दतीर्थविरचितं परमात्माष्टकं सम्पूर्णम्॥