rAdhAvinodavihAritattvAShTakam
Ashtakam
1
राधाचिन्तानिवेशेन यस्य कान्तिर्विलोपिता। श्रीकृष्णचरणं वन्दे राधालिङ्गितविग्रहम्॥
2
सेव्यसेवकसम्भोगे द्वयोर्भेदः कुतो भवेत्। विप्रलम्भे तु सर्वस्य भेदः सदा विवर्धते॥
3
चिल्लीलामिथुनं तत्त्वं भेदाभेदमचिन्त्यकम्। शक्तिशक्तिमतोरैक्यं युगपद्वर्तते सदा॥
4
तत्त्वमेकं परं विद्याल्लीलया तद्द्विधा स्थितम्। गौरः कृष्णः स्वयं ह्येतदुभावुभयम् आप्नुतः॥
5
सर्वे वर्णाः यत्राविष्टाः गौरकान्तिर्विकाशते। सर्ववर्णेन हीनस्तु कृष्णवर्णः प्रकाशते॥
6
सगुणं निर्गुणं तत्त्वमेकमेवाद्वितीयकम्। सर्वनित्यगुणैर्गौरः कृष्णौ रसस्तु निर्गुणैः॥
7
श्रीकृष्णं मिथुनं ब्रह्म त्यक्त्वा तु निर्गुणं हि तत्। उपासते मृषा विज्ञाः यथा तुषावघातिनः॥
8
श्री विनोदविहारी यो राधया मिलितो यदा। तदाहं वन्दनं कुर्यां सरस्वतीप्रसादतः॥
9
इति तत्त्वाष्टकं नित्यं यः पठेत् श्रद्धयान्वितः। कृष्णतत्त्वमभिज्ञाय गौरपदे भवेन् मतिः॥
10
इति भक्तिप्रज्ञान केशवगोस्वामीविरचितम् राधाविनोदविहारितत्त्वाष्टकं सम्पूर्णम् ।॥